________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१७२६ षड़ विधमास्थापनमेकरसमित्याचक्षते भिषजस्तद् दुर्लभतमं संस्कृष्टरसभूयिष्ठत्वाद् द्रव्याणाम्। तस्मान्मधुराणि मधुरप्रायाणि मयुरप्रभावप्रायाण्यपि च मधुरस्कन्धे मधुराण्येव कृत्वोपदेक्ष्यन्ते। तथेतराणि द्रव्याण्यपि। तद् यथा—जीवकर्षभको जीवन्ती वीरा तामलकी .काकोली क्षीरकाकोली 8 मुद्गपर्णी माषपर्णी
द्रव्याणि। ननु कुतस्तथा व्याख्यास्यन्ते इत्यत आह ---यत इत्यादि। एको रसो यत्र तदेकरसम्। तत्त्विति एकरसमास्थापनं दुर्लभतमं कुत इत्यत आह-संसृष्टेत्यादि । तस्मादित्यादि । तस्मात् द्रव्याणां संसृष्टरसभूयिष्ठत्वेन एकरसद्रव्याणां दुर्लभतमत्वेन एकरसास्थापनस्य दुर्लभतमसात् । मधुराणि यानि द्रव्याणि मधरप्रायाणि च यानि द्रव्याणि मधुरमभावप्रायाण्यपि च यानि द्रव्याणि तानि सर्वाणि मधुराणि कृत्वा मधरस्कन्धे आस्थापने उपदेक्ष्यन्ते । तथेतराणि अम्लादीनि द्रव्याणि उपदेश्यन्ते, अम्लानि च यानि द्रव्याणि अम्लवहुलानि च यानि द्रव्याणि अम्लप्रभावप्रायाण्यपि च यानि द्रव्याणि तानि सवाणि द्रव्याणि अम्लानि कृत्वा अम्लस्कन्धे आस्थापने उपदेक्ष्यन्ते। एवं लवणानि लवणबहुलानि लवणप्रभावप्रायाणि लवणस्कन्धे लवणानि कृत्वा, कटुकानि कटुकबहुलानि कटुकप्रभावबहुलानि च कटुकस्कन्धे कटुकानि कृत्वा, तिक्तानि तिक्तबहुलानि तिक्तप्रभावबहुलानि तिक्तस्कन्धे तिक्तानि कृत्वा, कषायाणि कषायवहुलानि कपायप्रभावबहुलानि कपायस्कन्धे कपायाणि कृखोपदेश्यन्ते इति प्रतिशा । । तथोपदिशति-तद् यथेत्यादि। जीवकर्षभकावित्यादि । वीरा क्षीरकाकोली।
अयञ्च मधुरादिरसेन द्रव्यगणनिर्देशः-मधुरादिरसेन मधुरादिरसद्व्यगणनिर्देशो मधुरादेवकरसस्यैव द्रव्यस्य संग्रहो यथा परैराख्यायते, तथास्माभिरपीष्यते, किन्तु यदपि रसान्तरे सत्यपि मधुरादिप्रधानम्, यद्वा द्रव्यं मधुरादिकार्यकारि विपाकप्रभावात्, तदपि मधुरादिगण एवास्माभिः पठनीयमिति दर्शयन्नाह-यत् वित्यादि। आस्थाप्यतेऽनेनेति आस्थापनं जीवकादि द्रव्यम् । एकरसमिति शुद्धैकरसम्। मधुरप्रायाणीत्युत्कृष्टमधुररसानीति। एवमम्लस्कन्धादिष्वम्लादीन्यपि बोध्यानीति तथेतराणि' इतिपदेन दर्शयति । भीरु जालान्धरं
* इतः परं भीरु इत्यधिकः पाठः ।
For Private and Personal Use Only