________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोगभिपगजितीय विमानम्
१६६८
चरक-संहिता। रोगभिपग्जितीयं विमानम् संसर्गात् संस्कृष्टलनणाः, सर्वगुणसमुदितास्तु समधातवः। इत्येवं प्रकृतितः परीक्षत ॥८५॥ ___ विकृतितश्चेति । विकृतिरुच्यते विकारः। तत्र विकारं हेतुदोषदृष्यप्रकृतिदेशकालवलविशेषैर्लिङ्गतश्च परीक्षेत। न ह्यन्तरेण हेत्वादीनां बलविशेषं व्याधिवलविशेषोपलब्धिः। यस्य हि व्याधेदोषदृष्यप्रकृतिदेशकालसाम्यं भवति महच्च हेतुलिङ्गबलम्, स व्याधिर्बलवान्। तद्विपर्ययश्चाल्पबलः, मध्यबलस्तु दोषदृष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलत्वाच्चोपलभ्यते ॥८६॥ सन्धयः शब्दायन्ते येषां तथाविधं गन्तु शीलं येषां ते सततसन्धिशब्दगामिनः, प्रायेणाल्पबलाः कचिन्मध्यमबला अपि भवन्ति। शेषमेवं स्पष्टम् ॥ ८४॥ __ गङ्गाधरः-संसृष्टखात् कफादीनां द्विकाः संसर्गात् संसृष्टलक्षणा उक्तकफादीनां लक्षणानां तत्तदोषप्राकृतलक्षणाः। सर्वगुणसमुदितास्तु सर्वेषां वातपित्तकफानां प्रकृतिस्थानां सर्वं गुणाः समुदिता येषां ते तथा॥८५॥
गङ्गाधरः-क्रमिकखात् विकृतितश्चातुरस्य परीक्षां दर्शयति--विकृतित३चेत्यादि। विकृतिरुच्यते विकार इति। विकारोऽत्र धातुवैषम्यनिमित्तो ज्वरादिः। न तु धातुवैषम्यं ज्वरादितोऽनुमेयत्वेनाप्रत्यक्षवात् । हेतुना दोषेण दृष्येण प्रकुत्या देशेन कालेन बलेन लिङ्गतश्च परीक्षेत । कुतो हेखादिविशेषैः लिङ्गतश्च परीक्षेत विकृतिमिति ? अत आह-न हीत्यादि। हेखादीनां बलविशेषमन्तरेण यस्मायाधिवलविशेषोपलब्धिर्न भवति । कुत इत्यत आहयस्येत्यादि। तद्विपर्ययः दोषदृष्यादीनामसाम्यम् । दोषदृष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलखाच। हेतुरसात्म्येन्द्रियार्थसंयोगादिः॥८६॥ .
चक्रपाणिः-सर्वगुणसमुदिता इति सर्वप्रकृतियुक्ताः प्रशस्तगुणयुक्ताः,- यदुक्तं वागभटे"समधातुः समस्तासु श्रेष्ठः" इति। यदि च प्रशस्तगुणता न स्यात, न तदा श्रेष्ठत्वं स्यात् । साम्यस्थिताश्च दोषाः साम्यप्रभावादेव गुणान् परान् कुर्वते, न दोषान् इति ज्ञेयम्। साम्यं भवतीति परस्परतुल्यगुणता भवति। महञ्च हेतुलिङ्गबलमिति हेतवो लिङ्गानि च बलवन्ति
* बल इत्यधिकः पाठः क्वचिट दृश्यते ।
For Private and Personal Use Only