________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हम अध्यायः विमानस्थानम् ।
१६६७ वातस्तु खलु रुक्षलघुचलबहुशीघ्रशीतपरुषविशदः। तस्य रौक्ष्याद्वातला रुतापचिताल्पशरीराः प्रततरुक्षक्षामभिन्न सक्तजर्जरखरा जागरूकाश्च भवन्ति । लघुत्वाल्लघुचपलगतिचेष्टाहारविहाराः, चलत्वादनवस्थितसन्ध्यक्षिघ्र हन्धोष्ठजिह्वाशिरःरकन्धपाणिपादाः, बहुत्वाद् बहुप्रलापकण्डराशिराप्रतानाः, शीघ्रत्वात् शीघ्रसमारम्भदोभविकाराः शीघ्रवासरागविरागाः श्रुतग्राहिणः अल्पस्मृतयश्च, शीतत्वाच्छीतासहिष्णवः प्रततशीतकोद्वपकस्तम्भाः, पारुष्यात् परुषकेशश्मश्रुलोमनखदन्तवदनपाणिपादाः, वैशद्यात् स्फुटताङ्गावयवाः सततसन्धिशब्द गामिनश्च भवन्ति। त एवंगुणयोगाद्वातलाः प्रायोऽल्पबलाश्चाल्पायुषश्वाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्च भवन्ति ॥८४॥
गङ्गाधरः-वातप्रकृतिलक्षणार्थमाह-वातस्वित्यादि। रुक्षादिविशदान्तो द्वन्द्वस्ततः परं मत्वर्थीयोऽचप्रत्ययः। तस्येति वातस्य । रुक्षमपचितं कृशमल्पं इस्वं शरीरं येषां ते तथा। प्रततेत्यादि। प्रततं निरन्तरं विस्तरेण वा रुक्षः कर्कशः क्षामः क्षीणः भिन्नो भङ्गरूपः सक्तोऽव्यक्तः जर्जरः असंहतः स्वरो येषां ते तथा, जागरूकाश्च भवन्ति । लघुखात् लाघवात् लघु शीघ्र चपला चञ्चलरूपा गतिश्च चेष्टा चाहारश्च विहारश्च येषां ते तथा, लघुचपलयोः सर्वत्रान्वयः। अनवस्थिताः अस्थिराः सन्ध्यादयो येषां ते तथा, बहुलादिति विच्छेदस्वभावात्, शीघ्रखात् शीघ्रकरखात् शीघ्रसमारम्भादयः अचिरात् समारम्भादयस्त्रासादयश्च, श्रुतग्राहिणः श्रुतमानं ग्रहीतु धारयितु शीलं येषां ते तथा, अल्पस्मृतयश्चेत्यचिरस्थायिस्मृतयः, शीतासहिष्णवः शीतं सोढमशीलाः, प्रततं शीतकं शैत्यम् उद्वेपक उत्कम्पता स्तम्भश्च येषां ते तथा, परुषाः निःस्नेहत्वेन खराः केशादयो येषां ते तथा, स्फुटिताः पाटिता अङ्गावयवा येषां ते तथा, सततं गमने प्रभृतिषु गम्धो येषां ते तथा। प्रततः प्रसृतः। भिन्नो भग्नपात्रध्वनिसमः। मन्दो हीनः । सक्तो पद्धः । सततसन्धिशब्दगामिन इति सन्धिस्फुटनशब्दवन्तः ॥ ८३१८४ ॥ • इतः परं मन्द इत्यधिकः पाठः क्वचित् ।
For Private and Personal Use Only