________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1मः अध्यायः । निदानस्थानम्।
१२२३ अथोभयविपरीतार्थकारि चौषधं यथा। कम्लोष्णाहारात् पित्तवृद्धौ अम्लमामलकं पित्तहरम्। जाङ्गमविषे मौलविषं मौले जाङ्गमम् । अग्निप्लुष्टे चोष्णोऽगु दिलेपः। उभयविपरीतार्थकारि चान्नं यथा- तीक्ष्णरुक्षाहारजाते पित्तरोगे मन्दं स्निग्धं घृतम् । मद्यपानोत्थे मदात्यये मदकारणं मद्यश्च। उभयविपरीतार्थकारी विहारस्तु-व्यायामातियोगजे वृद्ध वाते सम्यग्व्यायामः। तथातिव्यायामज चोरुस्तम्भे जलप्रतरणं स्थलाक्रमणश्च इति। वक्ष्यते च रसविमाने। तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत् । न खेवं खलु सचेत्र। न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतप्रकृतिकानामन्यैश्च विकल्पनै विकल्पितानामवयवप्रभावानुमानेन समुदायप्रभावतत्त्वमध्यवसातु शक्यम् । तथायुक्ते हि समुदाये समुदायप्रभावतत्त्वमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवसेत। ततो द्रव्यं प्रयुञ्जीतेति। अत्र जिज्ञास्यं, हेतुयेदि असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामा एवेति त्रिविधो भवति तत उत्पन्ने व्याधौ चिकित्सार्थ हेतुविपरीतविपरीतार्थकारिणामौषधादीनामुपयोगवचनं व्यर्थ भवति, रोगे हात्पन्ने निदानानामसद्भावात् । नैवं प्राणिनामभ्यवहृतमाहारजातं जाठरेण अग्निना पक श्लेष्मादिभिः सहकीभूतं श्लेष्मादिधातुरूपेणाभिनिष्पद्यते, ततः श्लेष्मादयो धातवस्तद्धेतुस्वभावा भवन्ति समाः सम्यगयोगेन विषमाविषमयोगेण तत्स्वभावप्रशमार्थ तद्धेतुविपरीतार्थकारिणामौषधादीनाम् उपयोग इति न तद्वचनानर्थक्यम् । ये च व्याचक्षते-दोषा दृष्याश्च व्याधीनां हेतव इति दोपविपरीतार्थकारिणामोषधान्नविहाराणां सुखानुबन्ध उपयोगोऽप्युपशयः। व्याधयो ज्वरादयस्तेषां विपरीतविपरीताथकारिणामोषधान्नविहाराणां मुखानुबन्ध उपयोगचोपशयः। दोषव्याध्यु. भयविपरीतविपरीतार्थकारिणामोषधान्नविहाराणां सुखानुबन्ध उपयोगश्च उपशय इति। तत्र यत् तु ज्वरादिव्याधिहरं तदवश्यं दोषहरमन्यथा स रोगो हेतुव्याधिविपरीतमौषधं, यथा-वातशोथे वातहरं शोथहरञ्च दशमूलम् । हेतुव्याधिविपरीतमन्नं, यथा-शीतोत्थज्वरे उष्णा ज्वरनी यवागूः। हेतुव्याधिविपरीतो विहारः, यथा-स्निग्धदिवास्वप्नजायां तन्द्रायां रुक्षं तन्द्राविपरीतं रात्रिजागरणम्। हेतुविपरीतार्थकायौं पधं, यथा-पित्तप्रधाने पच्यमाने शोथे पित्तकर उष्ण उपनाहः। हेतुविपरीतार्थकार्यन्नं, यथापच्यमाने पित्तप्रधाने शोथे विदाह्यन्नम् । हेतुविपरीतार्थकारी विहारः, यथा-वातोन्मादे वासनम् ।
For Private and Personal Use Only