SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२२ चरक-संहिता। ' ज्वरनिदानम् काले जातो यो व्याधिस्तत्कालविपरीतगुणकालोपयोगः। वक्ष्यते च शीतेनोष्णकृतान् रोगान् शमयन्ति भिषग्विदः। ये च शीतकृता रोगास्तेषा. मुष्णं भिषजितम् ॥ श्रमजे श्रमहरं द्राक्षादिदशकम् । श्रमजायामनिलवृद्धौ श्रमजे ज्वरे वा रसौदनः। इत्यन्नम्। स्निग्धदिवानिद्राजायां कफद्धौ तज्जेच ज्वरे रात्रिजागरणं रुक्षं दिवानिद्राविपरीतम् । इति विहारः। इत्युक्ता हेतुविपरीता औषधान्न विहाराः। व्याधिविपरीतमौषधं यथा-रौक्ष्यगुणतो वातटद्धौ स्निग्धं भद्रदाळदिकम् । अतीसारे स्तम्भनं पाठादि। विषे शिरीषः। कुष्ठे खदिरः। प्रमेहे हरिद्रा । तृष्णानादिकं दशकं दशकम् । व्याधिविपरीतमन्नं यथा। रौक्ष्यगुणतो वायुद्धौ स्निग्धं घृतादिकम् । अतीसारे स्तम्भनं मसूरयूषादि। व्याधिविपरीतविहारस्तु रोक्ष्यगुणतो वातद्धो दिवानिद्रा। उदावतें प्रवाहणम्। उभयविपरीतमौषधं यथाशीतगुणतो वृद्धवातशोथे दशमूलमुष्णं शीतहेतुविपरीतं वातशोथविपरीतश्च । उभयविपरीतमन्नं यथा-शीतनिमित्तद्धवातजे ज्वरे यवागूरुष्णा ज्वरघ्नी च। ज्वरघ्नी ज्वरसात्म्यवादित्युक्तम् । उभयविपरीतो विहारो यथास्निग्धदिवास्वप्नजायां कफद्धौ तज्जायां तन्द्रायाश्च तदुभयविपरीतं रात्रिजागरणम्। अथ हेतुविपरीतार्थकारि औषधं यथा-कटुरसातियोगजनिते शुक्रक्षये दृष्यं पिप्पलीशुण्ठयादिकं, पित्तप्रधाने पच्यमानत्रणशोथे पित्तकर उष्ण उपलेपश्च। हेतुविपरीतार्थकार्यन्नं यथा-रुक्षाहारातियोगजे शुक्रक्षये रुक्षः पुराणगोधूमो वृष्यः, पित्तप्रधाने पच्यमानत्रणशोथे चान्नं विदाहि द्रव्यम् । उभयविपरीतार्थकारी विहारो यथा-भयजायां वातद्धो भयजे च ज्वरे कामः। कामजे वा ज्वरे शोकः क्रोधश्च । भयजे वातोन्मादे त्रासनम् । अथ व्याधिविपरीतार्थकारि चौषधं यथा-वातजे वृद्धिसंज्ञरोगे शुण्ठयादिकं यावच्चौषधं सन्त्रेषु प्रोक्तं, छयां वमनकरं मदनफलादिकम्। व्याधिविपरीतार्थकारि चान्नं यथा-कफद्धिजे प्रमेहे पुराणा मधुयवगोधूमाः, वातातीसारे रेचनार्थ क्षीरम्। व्याधिविपरीतार्थकारी विहारस्तु–सस्नेहपित्तद्धिजाते स्निग्धे दिवास्वप्नः, छयां वमनाथं प्रवाहणश्च । लिख्यन्ते-हेतुविपरौतमौषधं, यथा-शीतकफवरे शुण्ठ्यावष्णं भेषजम्। हेतुविपरीतमन्नं, यथा-श्रमानिलजे ज्वरे रसौदनः। हेतुविपरीतो विहारः, यथा-दिवास्वप्नोस्थकफे रात्रौ जागरणम्। व्याधिविपरीतमौषधं, यथा-अतिसारे स्तम्भनं पाठादि। व्याधिविपरीतमन्नं, यथा- ॐतीसारे स्तम्भनं मसूरादि। व्याधिविपरीतो विहारः, यथा- उदावर्ते प्रवाहणम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy