________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१४
चरक संहिता |
| रोगभिषगजितीयं विमानम्
3
arrafone गमनस्य कृतस्यापि प्रतिषेध इव क्रियते इति स्तुतम् । एतेनेदं व्यञ्जितम् । २ दूति कान्तसम्भोगार्थिन्या मया मत्कान्तसमीपे आनयनार्थं प्रेपिता त्वमेव तेन सम्भुक्ता बान्धवजनस्य मम पीड़ां न जानासि खां किं वे स हि पुरुषोऽयम इति || अथ स्तोत्रं लक्षयति । स्तोत्रमिदं पुनः । अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । इति । इदन्तु स्तोत्रं नामाक्षेपः । यत्राक्षेऽधिकारादपेतस्य व्यपगतस्यान्यस्य वस्तुनो या स्तुतिः वर्त्तते तत्स्तुतिकरणमाक्षेपः स्तोत्रमिति । यथा - धन्यासि या कथयसि प्रियसङ्गमेषु विचाकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि ।। इति । इह सुरतविद्याधिकारादपेताया अन्यस्या नायः स्तुतिरियं धन्यासीत्यादि । एतेनाक्षिप्यते; सुरतविद्याहीनासि न सुखानुभवनिपुणासि यतः प्रियसङ्गमेषु रतान्तरेषु तत्सुखानुभवभचाकशतानि कथयसि नैवमहमस्मि यतः किञ्चिदपि न स्मरामि नो नान्यत्र निवेशयामि, तस्मात् समधन्याहं धन्येति व्यज्यते । । अथ समासोक्तिं लक्षयति । यत्रोक्ते गम्यतेऽन्योऽर्थस्तत्समानविशेषणः । सा समासोक्तिरुदिता स पार्थता बुधैरिति । यत्रार्थे खलक्ते सति यदि तत् समानविशेषणोsrisr गम्यते तदा स पार्थतया स आक्षेपो बुधैः समासोक्तिरुदिता । यथा- क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽशुकान्तं गृहम् केशे
9
पास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन योऽवधतत्रिपुरयुवतिभिः साश्रनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निरिति । इह कामीवार्द्रापराध इति शाम्भवशराग्निसमानविशेषणः क्षिप्तोहस्तावलग्न इत्यादिरूपः इति समासोक्तिराक्षेपः ।। अथापह्न तिमाक्षेपं लक्षयति । अपहु तिरपह्नुत्य किश्चिदन्यार्थसूचनम् । यत्राक्षेपे किञ्चित् वस्तु अपक्ष त्य चोरfया अन्यार्थसूचनं क्रियते स आक्षेपोऽपह्न तिर्नामोच्यते । तद्यथाकस्य न वा रोपः स्यात् सत्रणमधरं प्रियायाः समीक्ष्य । सभृङ्गपद्माघ्रायिणि वारितवामेऽधुना सहस्व । इति । अत्र नायकान्तरेणाधरदंशनमपह्न त्य सभ्रमरपद्याघ्राणे तद्भ्रमरकृतदंशोऽधरे दृश्यते इति सूचितं कयाचित् सख्या । इत्यवहुतिः || अथ पर्यायोक्तं लक्षयति । पर्य्यायोक्तं यदन्येन प्रकारेणाभिधीयते । यत्राक्षे एकविधेऽर्थे प्रस्तुतेऽन्येन प्रकारेणान्योऽर्थोऽभिधीयते स आक्षेपः पर्यायोक्ताख्य उच्यते । यथा - कान्ते कत्यपि वासराणि गमय सं मीलfear दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः ।
3
For Private and Personal Use Only