SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टम अध्यायः विमानस्थानम् । १५५१ गुर्वर्थोपान्बाहरणे यथाशक्ति प्रयतितव्यम्।कर्मसिद्धिमर्थसिद्धिं यशोलाभं प्रेत्य च स्वर्गमिच्छता भिषजा त्वया गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शांशासितव्यम् अहरहरुत्तिष्ठता चोपविशता च। सर्वात्मना चातुराणामारोग्ये प्रयतितव्यम्, जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्यव्यम् । मनसापि च परस्त्रियो नैवाभिगमनीयास्तथा सर्वमेव परस्वम्। निभृतवेशपरिच्छदेन भवितव्यम् अशौण्डेनापापेनापायसहायेन च, श्लदणशक्लधर्म्य-*-धन्यसत्यहितमितवचता देशकालविचारिणा स्मृतिमता ज्ञानोत्थानोपकरणसम्पत्सु नित्यं यत्नवता । न च कदाचिद् राजद्विष्टानां राजदूषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वा औषधमनुविधातव्यम् । एवं सङ्घषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामल्पवाद-+-प्रतिकारामदनुज्ञातेन वया मदननुशातेन वा खया प्रविचरता पूर्व गुरुणामर्थानामुपावाहरणे प्रयतितव्यं पश्चानिजाौपान्वाहरणे। कम्मेसिद्धिमिच्छतार्थसिद्धिमिच्छता यशोलाभमिच्छता प्रेत्य च मृखा च स्वर्गमिच्छता भिषजा खया भिषक्त्वं गतेन अहरहरुत्तिष्ठता चोपविशता च आदौ गोब्राह्मणं कृखा प्रथमतो गोब्राह्मणयोः शम्म सुखमाशासितव्यम्, ततः सर्वप्राणभृतां शम्म चाशासितव्यम् । सर्वात्मना सर्वांशेनातुराणां रोगिणाम् । अपि च जीवितहतोरातुरेभ्यो मित्रेभ्यो वा शत्रभ्यो वा नाभिद्रोग्धव्यं मनसापि चेति चकारात् वाचा कायेनापि इत्यर्थः। परस्त्रं परस्वामिकं वस्तु निभृतौ निश्चयेन भृतौ वेशपरिच्छदौ येन तेन तथा। अशौण्डेनामत्तेन । स्मृत्यादिषु नित्यं यत्नवता भवितव्यमिति पूर्वेणान्वयः। एवमित्यादौ च अल्पवादप्रतिकारादीनामिति जनपदोद्ध्वंसनीयाल्पहर्तव्यम्। गोब्राह्मणमादौ कृत्वेति प्रथमं गोब्राह्मणानाञ्च शर्माऽशासितव्यम्, ततश्चेतरेषां प्राणिनाम्। उपविशता चेति च्छेदः। शुण्डा मद्यशाला, तत्प्रचारी शौण्डः। अशौण्डस्तु तदप्रचारी। शुक्लमिव शुक्लम्, निर्दोषत्वादेतद्वचनम् । यत्नवता भवितव्यमिति सम्बन्धः। राज्ञो * श्लक्ष्णशुक्लधर्म्यशर्येति वा पाठः । + अनपवादेति चक्र For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy