________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम्। नष्टधर्म-सत्य-लजाचारशीलगुण-जनपदं शश्वत्क्षुभितोदीर्णसलिलाशयं प्रततोल्कापातनिर्घातभूमिकम्पञ्च प्रतिभयावाररूपम् रुक्षताम्रारुणसिताम्रजालावृतार्कचन्द्रतारकमभीक्षणं सम्भ्रमोद गमिव सत्रासरुदितमिव सतमस्कमिव गुह्यकाचरितम् इवाक्रन्दितशब्दबहुलञ्च अहितं विद्यात् ॥७॥
कालन्तु खलु यथतलिङ्गाषिरीतलिङ्गमगिलिङ्ग हीनलिङ्गश्चाहितमेव व्यवस्येत् ॥८॥
इमानेवंदोषयुक्तान् चतुरो भावान् जनपदोदध्वंसकरान् वदन्ति कुशलाः। अतोऽन्यथाभूतांस्तु हितानाचक्षते । विगुणेष्वपि तु खलु जनपदोद्ध्वंसकरेषु भावेषु भेषजेनैवोपपाद्यमानानामभयं भवति रोगेभ्यः । इति ॥६॥ कुक्कुरगणो यत्र तं तथा। उद्घान्त ऊद्ध देशे भ्रमणशीलो व्यथितश्च विविधमृगादिसंघो यत्र तं, तथा। उत्सृष्टाश्च नष्टाश्च धम्मसत्यलज्जाचारशीलगुणा येन तदुत्सृष्टनष्टधर्मसत्यलज्जाचारशीलगुणं तादृशं जनपदं यत्र तं, तथा। शश्वत् निरन्तरं वातादिभिः क्षुभितं तरङ्गबहुलमुदीर्ण जलाशयं यत्र तं, तथा। निर्यातो वनादिपातः। प्रतिभयं भयङ्करमप्यवारं रूपं मूत्तियंत्र तं, तथा । रुक्षेस्ताम्राऽरुणैर्वा सितैर्वाऽभ्रमालमेधजालैः संवृता अकेचन्द्रतारका यत्र तं, तथा। अभीक्ष्णं सम्भ्रमेण खरया व्यग्रतया लोकानामुमो यत्र तमिव लक्ष्यते । सत्रासं रुदिता लोका यत्र तमिव लक्षितं, सतमस्कम् अन्धकारयुक्तमिव गुह्यकैराचरितमिव आक्रन्दितशब्दैवहुलमिव च ॥७॥
गङ्गाधरः-कालन्वित्यादि स्पष्टम् । इमानित्यादि। इमान् वायूदकदेशकालान्। एवमुक्तमकारेण वैगुण्ययुक्तान् अतोऽन्यथाभूतानिति ऋतुसमास्तिमितमित्यादिरूपान् वायूदकदेशकालान् । ननु पूच्चमुक्तं प्रागुध्वंसात् प्राक् च भूमेविरसीभावादुद्धर सौम्य भैषज्यानीत्यादि। वाय्वादिवैगुण्येन भूमेविरसखात् दृश्यते, उत्सृष्टाश्च नष्टाश्च धर्मसत्यल जागुणा जनैर्यत्र स तथा, यत्र ये धादियुक्तास्ते उत्सृजन्ति
* प्रतिभयाराति वा पाठः।
For Private and Personal Use Only