________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३८
चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् रसवीर्यविपाकप्रभावानुपयोच्यामहे । ये चास्माननुकाङ्क्षन्ति यांश्च वयमनुकाइनामः। न हि सम्यगुद्धृतेषु सौम्य भैषज्येषु सम्यग्विहितेषु सम्यक चावचारितेषु जनपदोदध्वंसकराणां विकागणां किञ्चित् प्रतीकारगौरवं भवति ॥ २॥ ___ एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच। उद्धृतानि खलु भगवन् भैषज्यानि सम्यग विहितानि च सम्यगवचारितानि च ।
वयञ्चैषामित्यादि। एषामत ऊर्द्ध वक्ष्यमाणपुरुषाणाम्। के च ते पुरुषा इत्यत आह --ये चेत्यादि। ये च पुरुषा अस्मान अनुकाङ्क्षन्ति अन्विच्छन्ति यांश्च पुरुषान वयं अनुकासामोऽन्विच्छामः। तेषां पुरुषाणां रसादीनुपयोक्ष्यामहे। इति प्रनाहिनैपिवमात्रमा मनः ख्यापितम्। नन्वेवमस्तु व्याध्युत्पत्ती सत्यां प्रतिकारस्तेषां विधास्यतेऽस्माभिः, कस्मादधुना ओपधीनामुद्धरणं कार्यमित्यत आह-न होत्यादि। हि यस्मात् सम्यक् भूमेविरसीभावात् यथाविधि चौपधिषद्धारितासु सतीषु सम्यक् च जनपदोदवसकररोगोत्पत्तेः पूर्व सत्याश्चोत्पत्तौ तथाविधरसादिमत्सु भैपज्येषु विहितेषु सम्यक् चावचारितेषु आहारविधिना भक्षितेषु जनपदोद्ध्वंसकराणामेकविधानां विकाराणां ज्वरातीसारादीनां प्रतीकारगौरवं प्रतीकारभेषजवाहुल्योपयोगकर्त्तव्यता न भवति, स्वल्पेन प्रतीकारेण तेषां प्रशमो भविष्यतीति भावः ॥२॥
गङ्गाधरः --एवंवादिनमित्यादि। उद्धृतानीत्यादिनाग्निवेशेनात्मनस्तद्बोधः
युध्यध्वमिति। अन्ये तु 'सौम्य पदं भेपजविशेषणं कुर्वन्ति। ये चास्माननुकाङ्क्षन्ति ये चास्मान् भिषजोऽनुकान्तीत्यर्थः। यांश्च वयमनुकाङ्क्षामश्चिकि स्यत्वेन। एतेन, ये वैद्यप्रियत्वेन साध्याः। असाध्या हि वैद्यद्विप उक्ताः। वैद्याश्च यानिच्छन्ति, ते साध्यरोगा एव। असाध्यान् हि वैद्या नेच्छन्ति। एतेन, येऽन्येऽपि भेपजसाध्या रोगास्ते आसामोपधीनां रसादीनुपयुञ्जन्तीत्यर्थः। यदि, ये अस्मद्गताः, यांश्च वयं प्रयोजनवशादनुगताः, ते उपयोक्ष्यन्तीति व्याख्यायते, तदा आत्रेयस्य पक्षरागित्वेनाप्तत्वं न सम्भवतीति “सर्वत्र प्रजानां पितृवत् शरण्यः" इतिवचनाञ्चास्य नीरागत्वमुक्तम् ॥२॥
चक्रपाणिः- उद्धृतानीति वचनमभूते भूतवच्चेति प्रयोगाद्वोद्धव्यम्, यथा,- अचिरकर्तव्ये
For Private and Personal Use Only