________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम् ।
१४३७ अचिरादितो भरपि न यथावद्रसवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति, तद्वियोगाचातङ्कप्रायता नियता। तस्मात् प्रागुदध्वंसात् प्राक च भूमेविरसीभावादुद्धर 8 सौम्य भैषज्यानि यावन्नोपहतरसवीर्यविपाकप्रभावाणि भवन्ति। वयञ्चैषां अत्र ग्राह्यास्ते दृश्यन्ते। अचिरात् क्षिप्रमितो नक्षत्रादोनामृतुविकारकरभावाद् हेतोरियं भूरपीदं भूखण्डं तदोपदृषिता सती यथावद्रसवीर्यविपाकप्रभावं निधास्यति चकारात् तेन च भूरियं ओषधीनां तद्भूम्यां जातानां रसवीर्यादिकं यथावत् यस्या ओषधेर्यदयद्रसादिकं प्रसिद्धं तत् तथाविधं न प्रतिविधास्यति न स्वानुरूपेण विधास्यति। ननु ततः किं स्यादित्यत आह-तवियोगाचेत्यादि। तेषाम् ओपधीनां स्वाभाविकरसादीनामोषधिषु वियोगाच्च यस्मादातङ्कमायता रोगबहुलता नियता अवधारिता, तस्मात नक्षत्रादीनामृतुवैकारिकभावैर्भूमेविरसीभाविखे नौषधीनां यथावद्रसादेः स्वानुरूपेण विधानाभावेनातङ्कबहलता भावितावधारणात्। प्रागुध्वंसात् जनपदानामुध्वंसात् पूर्व भूमेश्च विरसीभावात् पूर्वञ्च भैषज्यानि उद्धर हे सौम्याग्निवेश। ननु कस्माद भूमेविरसीभावात् पूर्वमित्यत आहयावनोपेत्यादि। भैपज्यानि भूमेरुत्पत्याकरस्य विरसीभावादुपहतरसादीनि भवन्ति ततो यावनोपहतरसादीनि तावान् कालस्तु भूमेविरसीभावात् पूर्वकाल इति भावः। नन्वस्माकं किं प्रयोजनमोषधीनामुद्धरणमित्यत आहविचरन्नित्यर्थः। ऋतुविकाराय भृता ऋतुवैकारिकाः। ऋतुविकारश्चोपलक्षणम् । तेन जनपददेशवातविकाराय भूता इति मन्तव्यम्। यतो भूम्यादीनामपि विकृतिं वक्ष्यति। किंवा, ऋत्वननुरूपा ऋतुवैकारिकाः। तेन ऋत्वननुरूपलक्षणमेव नक्षत्रादीनां विकृतिरित्युक्त भवति ;---ग्रीष्मे हि नक्षत्राणि निर्मलानि भवन्ति, तानि यदि तु तुपारच्छन्नानि ग्रीष्मे भवन्ति, तदा विकृतानि भवन्तीति मन्तव्यम् । मूरपि चेति 'अपि' वचनात् जलानिलौ च ग्राहयन्ति । तेन भूस्तावदोषधीनां प्रधानकारणम्, सा रसादीन् न प्रतिविधास्यति, जलवातावपि चौषधीनां रसादीन् न प्रतिविधास्यत इति वचनं भवति। प्रतिविधास्यतीति जनयिष्यति। उद्धरध्वमिति बहुवचनं वह्वन्तेवासियुक्ताग्निवेशाभिप्रायेण। अग्निवेशस्तु प्रधानत्वेनैक एव हि, 'अग्निवेश' इतिपदेन तथा 'सौम्य' इतिपदेन सम्बोध्यते। भेषजोद्धरणन्तु बहुभिरेव कर्त्तव्यमित्यभिप्रायेण बहुवचनम्। भवति हि प्रधानं सम्बोध्य गणसम्पाद्यक्रियायां बहुवचनम्। यथा-पत्ते !
• उद्धरध्वमिति चक्रः।
For Private and Personal Use Only