SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः विमानस्थानम् । १४३३ सहसैवातुरमबलमतिपातयेत् । आमप्रदोषजानां पुनर्विकाराणाम् अपतर्पणेनैवोपरमो भवति। सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे निमित्तविपरीतमपास्यौषधमातङ्कविपरीतमेधावचारयेद यथास्वम्। सर्वविकाराणामपि च निग्रहे हेतुव्याधिविपरीतमहौषधमिच्छन्ति कुशलास्तदर्थकारि वा। अनुद्रिक्तामप्रदोषस्य 8 पुनः परिपक्कदोषस्य दीप्ते चाग्नौ अभ्यञ्जनास्थापनानुवासनं विधिवत् स्नेहपानञ्च युक्तया प्रयोज्यं आमेत्यादि। आमप्रदोपस्याजीर्णाहारस्य तत्कालपीतोषधस्य च परस्परं मेलनेनावर्त्तनं विभ्रमः अतिबलखात् प्रबलखात् तेन च विभ्रमेणोपरतकायाग्निम् अबलश्चातुरं सहसैवातिपातयेत् । __नन्वनकाले जीर्णाहारं दोपावलिप्ामाशयं पुरुपं न भोजयित्वा दोषशेषपाचनार्थमग्निसन्धुक्षणार्थश्चौषधपाने तस्याभोजनेन देह क्षयः स्यादित्यत आह-आमप्रदोषजानामित्यादि। नन्वामदोपशालिनं सम्यग लजितं दोषावलिप्तामाशयं दोषशेषपाचनार्थमग्निसन्धक्षणार्थञ्चौषधं पाययिखा दोषशेषे पके सन्धक्षिते चाग्नौ पुनश्चेत् तदामप्रदोषानुबन्धस्तिष्ठति तदा किमौषधं पाययेदित्यत आह-सति वित्यादि। अनुवन्धेऽर्थादामदोपस्यावशेषे सति कृतापतर्पणानां सम्यग् लवितानां पुंसां व्याधिनिग्रहे व्याधिप्रशमने निमित्तविपरीतमतिमात्राहारविपरीतं तत्कुपितदोषविपरीतञ्चौषधमपास्य स्यत्वार्थान्न दत्त्वा यथास्वमातङ्कविपरीतं शूलाङ्गमा दिवातजाद्यातङ्कविपरीतमेवौषधमवचारयेत् भक्षयेत्। प्राङ् नातिसश्चितो हि तत्रासश्चितो वा वातादिदोषः। ननु किमस्मिन्नेव विमुचिकारोगे एवमौषधं किमन्यस्मिन् सर्चविकारे वेत्यत आह-सव्वेत्यादि। सर्व विकाराणामपि चेति प्रागेव दोषसञ्चयात् जातानां दोपजानां व्याधीनाम् । तदर्थकारि वेति हेतुव्याधिविसूचिकालसकव्यवस्थितशूलज्वरादौ आतङ्कविपरीतं निरामशूलज्वरहरमेव युज्यते । यथास्वमिति यद यस्य शूलादेरातङ्कविपरीतं तत् तत्र कार्यमित्यर्थः। आतङ्कविपरीतशब्देन च तदर्थकारि गृहीतं मन्तव्यम् । अत एवोत्तरत्र "तदर्थकारि वा” इति सर्वविकारभेषजकथने उपपन्नं भवति । • विमुक्तामप्रदोषस्येति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy