SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४३२ चरक-संहिता। (त्रिविधकुक्षीयविमानम् प्रदोषेषु त्वन्नकाले जीर्णाहारं पुनदोषावलिप्तामाशयं स्तिमितगुरुकोष्ठम् अनन्नाभिलाषिणमभिसमीक्ष्य पाययेद् दोषशेषपाचनार्थमौषधम् अग्निससन्धुनणार्थञ्च। न त्वेवाजीर्णाशनम् । आमप्रदोषदुर्बलो ह्यग्निर्न युगपदोषमौषधमाहारजातञ्च शक्तः पक्तुम् । अपि च आमप्रदोषाहारौषधविभ्रमोऽतिबलत्वादुपरतकायाग्निं स्ववक्लिन्नां मण्डपूर्वा सुखोष्णां यवागू पाययेदग्निबलमभिसमीक्ष्य चैवं द्वितीये तृतीये चान्नकाले। चतुर्थे चान्नकाले तथाविधानामेव शालितण्डुलानाम् उस्विन्नां विलेपीमुष्णोदकद्वितीयामरनेहलवणामल्पस्नेहलवणां वा भोजयेत् । एवं पञ्चमे षष्ठे चान्नकाले। सप्तमे वनकाले तथाविधानामेव शालितण्डुलानाम् द्विःप्रसृतं सुरिवनमोदनम् उष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्। एवमष्टमे नवमे चानकाले। दशमे खन्नकाले लावकपिञ्जलादीनाम् अन्यतममांसरसेनौदकलावणिकेनातिसारवता भोजयेदुष्णोदकानुपानम् एवमेकादशे द्वादशे चान्नकाले । अत ऊर्द्ध मन्नगुणान् क्रमेणोपयुञ्जानं सप्तरात्रेण प्रकृतिभोजनमागच्छेदिति। अत्रान्तरे पुनरामप्रदोषेषु सत्सु द्वितीयाद्यन्नकाले जीर्णाहारं विसूचिकात्तं पुरुष दोषावलिप्तामाशयं स्तिमितगुरुकोष्ठमन्नाभिलाषरहित, भिसमीक्ष्य शेषदोषपाचनार्थमग्निसन्धुक्षणार्थश्चौषधं पाययेत्। न तु अजीर्णाशनम् अजीर्णाहारम्। ननु कस्मादनकाले जीर्णाहारमेवं तं तादृशार्थम् औषधं पाययेदित्यत आह-आमप्रदोषदुबल इत्यादि । अजीर्णे पूर्वाहारे सति यदि दोषशेषपाचनार्थमग्निसन्धुक्षणार्थञ्चौषधं पायितं भवति, तदा तं दोपशेष तच्चोषधं तदेवाजीर्णीभूतमाहारजातश्च युगपदेव पक्तुं न शक्तः स्यादामप्रदोष. दुब्बेलाग्निस्तस्मादनकाले जीर्णाहारमेवौषधं पाययेत् । तदा हि शेषदोष तत्पाचनार्थमग्निसन्धुक्षणार्थश्चौषधं पक्तु शक्तः स्याद् दुबलोऽप्यग्निः । अजीर्णाहारे तु दोषशेपे च पीते च तदोषधे किं स्यादित्यत आह-अपि च आहारस्याजीर्णतां दर्शयति। दोपावलिप्तामाशयस्य स्तिमितकोष्ठत्वादि पुरुषविशेषणमपि लक्षणं ज्ञेयम् । न त्वजीर्णाशनमिति पुनर्निषेधकरणे नाजीर्णाशनेन प्रमादादजीर्णप्रशमनाभिप्रायेण क्रियमाणभेषजस्य महात्ययतां "दुर्बलो ह्यग्निः' इत्यादिना वक्ष्यमाणां दर्शयति । कृतापतर्पणानामित्यनेन दोपाणामामताक्षयं सूचयति । सम्यक कृते ह्यपतर्पणे न आमानुबन्धोऽस्ति । ततश्च निरामदोषारम्धे For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy