SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२० चरक-संहिता। रसविमानम् मात्रावदश्नीयात्। मात्रावद्धि भुक्तं वातपित्तकफानप्रपीइयदायुरेव विवर्द्धयति केवलम् ।सुखं गुदमनु पथ्ये ति नोष्माणमुपहन्त्यव्यथञ्च परिपाकमेति। तस्मान्मात्रावदश्नीयात् ॥ १५ ॥ जीर्णेऽश्नीयात् । अजीणे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपस्सृजत् सर्वान् दोषान् प्रकोपयत्याशु। जीणे भुञानस्य स्वस्थानस्थेषु दोषेषु अग्नौ चोदीणे जातायाञ्च बुभुक्षायां विवृतेषु च स्रोतसां मुखषद्गारे विशुद्धे हृदये विशुद्ध वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेषु अभ्यवहृतमाहारजातं सर्वशरीरधातून् अप्रदूषयदायुरेवाभिवर्द्धयति केवलम्। तस्माजीणेऽश्नीयात्॥१६॥ गङ्गाधरः-मात्रावदश्नीयादिति। मात्रावद् भुक्तं हि वातपित्तकफान् अप्रपीड़यत् न प्रपीड़यत् सदायुरेव केवलं कृत्स्नं विवर्द्धयति। सुखं यथा स्यात् तथा गुदमनुपय्येति सम्यक्पक्वं विड़ भूतं सुखे गुदमनु लक्ष्यीकृत्य पय्ये ति न चोष्माणं जाठराग्निम् उपहन्ति समश्चानुवर्तते। यतोऽव्यथं सुखं परिपाकमेति। अमात्रावद भुक्तं वातादीन प्रपीड़यदायुन वर्द्धयतीत्येवमादि उन्नयेत ॥१५॥ गङ्गाधरः-जीर्णेऽश्नीयादिति । अजीणे होत्यादि। व्यतिरेकेण सादगुण्यं मुक्तकण्ठेनोक्तम् अपरिणतम् ईषत्परिणतं सशेष परिणतमित्यर्थः । अन्वयमुखेन सादगुण्यमाह-जीर्णे इत्यादि। जीणे सत्याहारे स्वस्थानस्थदोषादीनि भवन्ति। तेषु सर्वेषु सत्सु ज्ञाते जीर्णे भुञ्जानस्य प्रकरणाद्धितं भुञ्जानस्य पुंसोऽभ्यवहृतं भुक्तं तावदाहारजातं सर्वशरीरधातून वातादीन् मलधातून रसादीन् प्रसादधातून वसादीनुपधातूंचाप्रदूषयत् दृषितान न कुर्चत् ॥१६॥ चक्रपाणिः-मात्रावदिति प्रशंसायां मतुप्, तेन प्रशस्तमात्रमित्यर्थः ; अपीडयदिति अनतिमात्रत्वेन स्वस्थानस्थितं सत् वातादीन् स्थानापीड़नादप्रकोपयत्। गुदमनु पर्येतीति परिणतं सदनुरूपतया निःसरतीत्यर्थः। उष्माणं वह्निम् ॥ १५॥ चक्रपाणिः- पूर्वस्येति दिनान्तरकृतस्य, अपरिणतमित्यसम्यगजातम्, आहाररसेनेत्याहार For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy