________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
विमानस्थानम्।
१४१६ - उष्णं स्निग्धं मात्रावज्ज्वीणे वीर्य्याविरुद्धमिष्टे देशे इष्टसर्वोपकरणं नाति तं नातिविलम्बितमजल्पन्नहसंस्तन्मना भुञ्जीत आत्मानमभिसमीक्ष्य सम्यक् । तस्य च साद्गुण्यमुपदेक्ष्यामः ॥१२॥
उष्णमश्नीयात् । उष्णं हि भुज्यमानं स्वदते भुक्तश्चाग्निमनुदीर्णमुदीरयति चित्रं जरां गच्छति वातश्चानुलोमयति श्लेष्माणश्च परिशोषयति*, तस्मात् उष्णमश्नीयात् ॥ १३ ॥ ___ स्निग्धमश्नीयात् । स्निग्धं हि भुज्यमानं वदते भुक्तश्चानुदीर्णम् + अग्निमुदीरयति नितंजरां गच्छति बातमनुलोमयति दृढ़ीकरोति शरीरोपचयं बलाभिवृद्धिञ्चोपजनयति वर्णप्रसादश्चाभिनिवर्तयति। तस्मात् स्निग्धमश्नीयात् ॥ १४ ॥
कस्तावदन्नपानविध्युक्तविधिभिराहारस्य करणप्रकार इत्यत आहउष्णमित्यादि। इष्टे स्वमनोऽनुकूले। वीर्याविरुद्धं संयोक्तु यदुव्यं यद्रव्यस्य वीय्येण स्ववीर्य्यतो विपरीतं भवति, तेन द्रव्येण तद्रव्यं संयुक्तम् । तन्मनाः भोजनमनाः। एषामुष्णादीनामन्यतमैकादिकमन्तरेण न भुञ्जीत । भुङ्क्ते चेत् तदा किं स्यादित्यत आह-तस्येत्यादि । तस्याहारविधिविधानस्य सादगुण्यं सदगुणत्वं व्यतिरेकेणासदगुणत्वञ्च बोध्यम् ॥१२॥
गङ्गाधरः-सदगुणमाह-उष्णमश्नीयादित्यादि। तत्र हेतुमाह-उष्णं हीत्यादि। उष्णं नात्युष्णम्, शीतश्चात्युष्णश्च भुज्यमानं न स्वदते भुक्तम्, अग्निमुदीयं नोदीरयति इत्येवमादि उन्नयेत् ॥१३॥
गङ्गाधरः-स्निग्धमश्नीयादिति। स्निग्धं नातिस्निग्धम्। अतिस्निग्धमस्निग्धश्च भुज्यमानं हि न स्वदते। भुक्तमित्येवमादि उन्नेयम् ॥१४॥ हिततमं भवतीति योजना। प्रकृत्यैवेति स्वभावेनैव हिततमं वक्ष्याम इति भावः। उष्णमित्यादौ सम्यगिति च्छेदः। तस्येत्युष्णादिगुणयुक्तस्यानस्य। सादगुण्यमिति प्रशस्तगुणयोगिताम् । परिहासयतीति भिन्नसङ्घातं करोति। दृढ़ीकरोति शरीरोपचयमिति शरीरोपचयं स्थायिनं करोति ॥ १२-१४॥
* परिशोषयतीत्यत्र परिहासयतीति चक्रसम्मतः पाठः। । भुक्तमुदीर्यमित्यन्यः पाठः।
For Private and Personal Use Only