________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम् ।
१२०१ विशेषेण हासयति सामान्येन वर्द्धयतीति समवायिकारणम् । प्रज्ञाया एवं समयोगातियोगादिभिः कृताद वाङ्मनःशरीरारम्भाज्जातं कर्मफलं धर्माधर्म संस्कारविशेषरूपं शरीरेण समवेत्य वर्तमानं तत्र कालेन परिणतं धर्माखा सामान्यविशेषाभ्यां समान धातून रक्षति, अधर्माख्यन्तु हासयति विशेषेण, वर्द्धयति सामान्येनेति। अयोगादियुक्तप्रज्ञाजातस्वधर्मः । इति धमाधम्मपि समवायिकारणम् । कालोऽपि समलक्षणः शरीरं समवेत्य समान धातून रक्षति सामान्यविशेषाभ्यां हीनातिमिथ्यायोगलक्षणस्तु शरीरं समवेत्य समान् धातून सामान्येन वद्धयति विशेषण हासयतीति सम. वायिकारणम्। इत्येवं रोगारोग्ययोः समयोगायोगादियोगरूपं कारणत्रयम् असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामाख्यं समावायिकारणम् । निमित्तं कारणन्तु जनकं मातापित्रादिकं घटादिषु कुलालादिकमिव भूताभिषङ्गादिकं रोगारोग्ययोभिषगादिपादत्रयश्च द्रव्यवज्जम् सन्निकृष्टम् । विप्रकृष्टन्तु सव्वे. रोगाणां मृत्युनाम्नी कन्या, तस्या रोदनजाश्रुविन्दवो हि रोगाः। दक्षयज्ञ कुपित. रुद्रश्च ज्वरस्येति । देशस्तु खल्वसात्म्येन्द्रियार्थसंयोगेऽन्तर्भवति तत्तद्देशगुणानामिन्द्रियैयोगात् । एषान्तु त्रयाणां स्वस्खकाय्र्यजनने सामान्य विशेषयोधर्मयोभूयस्वाल्पीयस्वाभ्यां जयाजये सति व्यभिचाराव्यभिचारी भवतः। वक्ष्यतत्रैव स्थाने प्रमेहनिदाने । इह खलु निदानदोषदृष्यविशेषेभ्यो विकाराणां विधातभावाभावभावप्रतिविशेषा भवन्ति । यदा ह्य ते त्रयो निदानादिविशेषाः परस्परं नानुबध्नन्ति न तदा विकाराभिनि तिर्भवति । अथाप्रकर्षादवलीयांसो वानुबन्धन्ति, न तदावश्यं विकाराभिनिन् त्तिर्भवति । चिराद्वाप्यभिनिर्वत्तेन्ते विकारास्तनको वा भवन्त्यथवाप्ययथोक्तसबंलिङ्गाः, विपय्यये विपरीताः । इति सव्वेविकारविघातभावाभावभावप्रतिविशेषाभिनि तिहेतुर्भवत्युक्तः। इति । यथा दुग्धं मधुरं मधुरपाकं शीतवीर्य स्निग्धं गुरु पिच्छिलं द्रवं सरश्च । कफस्य च तादृशगुणस्य स्थिरस्य स्थैय्यगुणवज्ज सर्वगुणसामान्यभूयस्वात् स्थिरगुणहासकारिणं सरगुणमवजित्य सर्वगुणतः कर्फ वद्धयति। न तु सरखेन दुग्धं माधुर्यादिकमवजित्य कर्फ स्थिरगुणतो हासयत्यल्पीयस्वात् । काञ्जिकन्वम्लम्
वातजाः; यद्यपि प्रधानस्वेन वायव्या एव प्रथमं निद्देष्टु युज्यन्ते, तथापीह ज्वरे पित्तस्य प्रधानत्वादाग्नेयाभिधानम् ; आग्नेयसीम्यवायव्या इति समासेनै केकस्याप्यसात्म्योन्द्रयार्थसंयोगादेत्रिविधरोगोत्पत्तित्वं दर्शयति ; असमासे हि यथासंख्यमपि शङ्कयते , अन्यथापि
१५१
For Private and Personal Use Only