________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम्।
१९९४ भयक्रोध-लोभमोहमदभ्रमाः। तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद देहकर्म. जम् । यच्चान्यदीदृशं कम्मे रजोमोहसमुत्थितम् । प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् । बुद्धया विषमविज्ञानं विषमञ्च प्रवर्तनम् । प्रशापराधं जानीयान्मनसो गोचरं हि तत् । इति । इत्येवश्च प्रज्ञापरावेन कृतकम्मैफलेनाधर्मेण फलोन्मुखीभूतेन अधिष्ठितः पुरुषोऽतिमात्रस्तनितपटहोत्क्रुष्टादीनां शब्दानामतिमात्र श्रवणं करोति। सर्वशो वा शब्दान् न शृणोत्यतिसूक्ष्मान् वा शृणोति । परुषेष्टविनाशोपघातप्रषेणभीषणादीन् वा शब्दान् शृणोतीत्येवं शब्दानाम् अतियोगायोगहीन योगमिथ्यायोगेभ्यः श्रवणेन्द्रियं व्यापद्यते। तदुक्तं कतिधापुरुषीये--अत्युग्रशब्दश्रवणात् श्रवणात् सर्वशो न च। शब्दानाश्वातिहीनानां भवन्ति श्रवणाजड़ा। परुषोद्भीषणाशस्ताऽप्रियव्यसन. सूचकैः। शब्दैः श्रवणसंयोगो मिथ्यायोगः स उच्यते । १। तथातिशीतोष्णानि स्पृश्यानि स्पृशति स्नानाभ्यञ्जनोत्सादादीनि चातिशीतोष्णानि अत्युपसेवते। सव्वेशो वा स्पृश्यानि न स्पृशति सूक्ष्माणि वा स्पृशति । विषमस्थानासनाभिघाताशुचिभूनादीनि वा स्पृश्यानि स्पृशतीत्येवं स्पशेनेन्द्रियस्पृश्यातियोगायोगहीनयोगमिथ्यायोगेभ्यः स्पशनेन्द्रियबाधा भवति। तदुक्तं कतिधापुरुषीये-- असंस्पोऽतिसंस्पर्शी हीनसंस्पर्श एव च। स्पृश्यानां संग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः । यो भूतविषवातानामकाले नागतश्च यः। स्नेहशीतोष्णसंस्पर्शी मिथ्यायोगः स उच्यते । २ । तथातिप्रभावतां दृश्यानामतिमात्रं दर्शनमाचरति सम्वेशो वा न पश्यति। अतिसूक्ष्माणि वा पश्यति। अतिविप्रकृष्टरौद्रभैरवादद्भुतद्विष्टबीभत्सविकृतादिरूपाणि वा पश्यतात्येवं चक्षुरातियोगायोगहीनयोग मिथ्यायोगेभ्यो नयनं व्यापद्यते। तदुक्तं कतिधापुरुषीये-रूपाणां भास्वतां दृष्टिविनश्यति हि दर्शनात् । दर्शनाचातिसूक्ष्माणां सव्वेशश्वाप्यदर्शनात् । विष्टभैरवबीभत्स-दूरातिक्लिष्टदर्शनम्। तामसानाश्च रूपाणां मिथ्यासंयोग उच्यते। ३ । तथासौ पुरुषोऽतितीक्ष्णोग्राभिष्यन्दिनो गन्धानतिमात्रं निव्रति सर्बशो वा न जिघ्रति जिप्रति वातिमूक्ष्मान् । प्रतिद्विष्टामध्यप्रज्ञापराधः प्रधानं भवति, तथापि प्रत्यासन्नकारणत्वेन तथा अबुद्धिपूर्वकस्यापि उत्कटशब्दमिथ्यायोगादेराप कारणत्वेनासात्म्येन्द्रियार्थसंयोगोऽपि प्रधानम् । यद्यपि कालो दुष्परिधरत्वेन प्रधानम्, तथापि सोऽपीन्द्रियार्थपराधीनत्वेनाप्रधानम्, कालातियोगादय इन्द्रियार्थशीतायतियोगादिभ्य एवं प्रायो भवन्ति ।
For Private and Personal Use Only