________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११८ चरक-संहिता।
ज्वरनिदानम् नामपरा च प्राकृती वैकृती गतियथा-पित्तादेवोप्मणः पक्तिनराणामुपजायते । पित्तञ्चैव प्रकुपितं विकारान् कुरुते बहुन् । प्राकृतस्तु बलं श्लेष्मा वैकृतो मल उच्यते। स चैवौजः स्मृतं काये स च पाप्मोपदिश्यते। सा हि चेष्टा वातेन स प्राणः माणिनः स्मृतः । तेनैव गेगा जायन्ते तेन चैवोपरुध्यते । इति । इत्येवं प्राकृतवैकृतद्विविधकालयोगः कालसम्प्राप्तिस्तथा काले परिणतकम्मेफलाधर्मश्च कालस्य मिथ्यायोगायोगातियोगा उच्यन्ते । तद् यथा कतिधापुरुषीये-धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम् । असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः । इति। अत्र या कालसम्प्राप्तिरुक्ता तत्रैव चयादयोऽन्तभूताः । तथा चोक्तम् । निर्दिष्टा कालसम्माप्तिाधीनां हेतुसंग्रहे। चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा। मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः । जीर्णभुक्त. प्रजीर्णान्न-कालाः कालस्थितिश्च या। पूर्वमध्यापराह्नाश्च रात्रया यामास्त्रयश्च ये। येषु कालेषु नियता ये रोगास्ते च कालजाः। इति । इति काले परिणामेन फलोन्मुखीभूतेनाशुभकम्मेजफलेनाधम्र्मेण यदा बुद्धिरधिष्ठीयते, तदा धीर्वा धृतिर्वा स्मृतिर्वा भ्रश्यति, धीधृतिस्मृतिभ्रं शो हि बुद्धे रतियोगायोगमिथ्या योगाः, तैस्तु त्रिविधैयोगयुक्ता प्रशा वाङ्मनःशरीरारम्भेष्वपराध्यतीति प्रज्ञापराध उच्यते । प्रज्ञापराधे सति वागतिप्रवत्तेते न वा प्रवर्तते मिथ्या वा प्रवर्त्तमानासूचकानृता कालकलहाप्रियावद्धानुपचारपरुषवचनादीनि भाषते। मन थाति प्रवत्तते न वा प्रवर्तते मिथ्या वा प्रवत्तेमानं भयशोकक्रोधलोभमोहमाना मिथ्यादशनादिकमाचरति । शरीरश्चातिप्रवत्तेते न वा प्रवर्तते मिथ्या वा प्रवर्तमानं वेगधारणोदीरणविषमस्खलनगमनपतनाङ्गप्रणिधानाङ्गप्रदूषण प्रहारावमनप्राणोपरोधसंक्लेशनादीनि करोति। एवमुक्तं कतिधापुरुषीये। उदीरणं गतिमतामुदीर्णानाञ्च निग्रहः। सेवनं साहसादीनां नारीणाश्चातिसेवनम्। कम्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् । विनयाचारलोपश्च पूज्यानाञ्चाभिधर्षणम् । शातानां स्वयमर्थानामहितानां निषेवणम् । परमोन्मादिकानाञ्च प्रत्ययानां निषेवणम् । अकालादेशसञ्चारौ मैत्री संक्लिष्टकर्म भिः। इन्द्रियोपक्रमोक्तस्य सदयत्तस्य च बज्जनम् । ईर्ष्यामानकिंवा रक्तपित्तादिकारणे ज्वरादावपि असात्म्येन्द्रियार्थसंयोगाद्य व मूलकारणम् ; तेन ज्वरादिकार्ये रक्तपित्तादो ज्वरादिकारणमेव मूलकारणं भवति ; पूर्वोक्तकालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति चेति क्रमभेदेनेहासात्म्येन्द्रियार्थसंयोगस्यादावभिधानेन सर्वेषामेवैषां रोगकतत्वे प्राधान्यं दर्शयति ; मा भूदेकान्ताभिधानेन प्रधानतानियमः । यद्यपि मूलभूतस्वेन
For Private and Personal Use Only