________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६६ चरक-संहिता।
वरनिनामम तत् त्रिविधमसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति । अतस्त्रिधा व्याधयः प्रादुर्भवन्याग्नेयाः सौम्या वाय. व्याश्च*, द्विविधाश्चापरे राजसास्तामसाश्च ॥३॥ ...
गङ्गाधरः-निदानं समासत उक्त्वा सर्वेषां रोगाणां सामान्यतो निदानमाह-तत् त्रिविधमित्यादि। असात्म्येत्यादि। असात्म्येन्द्रियार्थसंयोगादिहेतुत्रयम् उत्तरोत्तरप्राधान्येन दीर्घजीवितीयेऽध्याये प्रागुक्तम् । कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च। द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रहः। शरीरं सत्त्वसंशश्च व्याधीनामाश्रयो मतः॥ इति । तत्र तेषां मिथ्यायोगायोगातियोगानां विशेषज्ञानार्थम् अनुवादः कतिधापुरुषीये कृतः। तद् यथा-धीधृतिस्मृतिविभ्रंशः संप्राप्तिः कालकर्मणाम् । असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः ॥ इति । तत्र कालस्य मिथ्यायोगायोगातियोगाः परिणामसंज्ञा उक्ताः तिस्रषणीयेऽध्याये । शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः, स कालः । तत्रातिमात्रस्खलक्षणः कालः कालातियोगः, हीनस्खलक्षणः कालः कालायोगः, यथास्खलक्षणविपरीतलक्षणस्तु कालः कालमिथ्यायोगः। कालः पुनः परिणाम उच्यते इति । परिणाम इति। कालो हि सर्व परिणमयतीत्यतः परिणामः, तस्मिन् काले च यत् परिणमति स च सर्वोऽपि परिणाम इत्युच्यते। यदिह शुभाशुभानि कर्माणि कुवन्ति तानि खल्विह लोके फलन्ति कानिचित्, कानिचित् परत्र फलन्ति। तच्छुभाशुभकम्मजौ धर्माधम्मो कालान्तरफलौ न तु सद्यःफलो गोदोहनवत् । ततः काले परिणामेन शुभाशुभफलहेतुखात् परिणामसंशो। भावानां स्वभावोऽपि परिणामसंज्ञः। कालस्य परिणामेन जन्मजरामृत्युप्रभृतयोऽनिमित्तजाः स्वाभाविका व्याधयः स्वभावात जायन्ते। पूर्वदेहकृतौ शुभाशुभकर्मजो धर्मश्चाधर्मश्च कर्मसंज्ञः, कालेन परिणामेन शुभाशुभहेतुखात् परिणामः। अस्मिन् जन्मनि च यानि कर्माणि
चक्रपाणिः- हेतो दमाह- तत् त्रिविधमित्यादि । एतच्चासात्म्योन्द्रयार्थसंयोगादि दीर्घजीवितीये तिस्रषणीये च प्रपञ्चितमिति नेह प्रपञ्चयते ; अत्र पाठादेव त्रित्वे सिद्धे त्रिविधमितिवचनं बहुप्रपञ्चस्यापि असात्म्येन्द्रियार्थसंयोगादेस्त्रैविध्यानतिक्रमोपदर्शनार्थम्, तथा, प्रत्येकमयोगातियोग* त्रिविधविकल्षा इति वा पाठः ।
For Private and Personal Use Only