________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४८ चरक-संहिता।
शोषनिदानम् श्लेष्माणः प्रकोपमापद्यन्ते। ते प्रकुपिता नानाविधोपद्रवैः
तत्र साहसादिषु चतुर्वपि साहसादीनामेकैकस्य बहुप्रभेदात् तत्प्रभेदादप्येकशी द्विशस्त्रिश इत्यादिरूपात् बलवद्विग्रहादिसाहसादितो वातपित्तश्लेष्मकोपजो राजयक्ष्मा बोध्यः । एवमेव साहसादेकानेकोपसेवनेनाल्पमध्याधिकबलवत्तया दोषकोपो भवति तथा चाल्पबदोपैत्रिचतुःपञ्चरूपो राजयक्ष्मा स्यात्। मध्यबलदोषैर्यथावलं षट्सप्ताष्टनवदशान्यतमरूपो भवति। पूर्णबलदोषयेथाबलमेकादशादिरूपो भवति । एतेन साहसायन्तगतैव्रणोरःक्षतादिभिः हेतुभिः शोषो यैवेद्याख्यातस्तन्मतमसमग्रवचनान्निरस्तमपि चैतेषु चतुर्वन्तगैतखात् अप्रतिषेधादनुमतम्, सुश्रुतेनाप्येतदभिप्रायेणाप्रतिषिध्य प्रोक्तम् । व्यवायशोकवार्द्धक्य-व्यायामाध्वोपसेवनात्। व्रणोरःक्षतपीड़ाभ्यां शोषानन्ये वदन्ति हि ॥ व्यावायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः। पाण्डुदेहो यथापूर्व क्षीयन्ते चास्य धातवः।१। प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः । विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः । २ । जराशोपी कृशो मन्दः स्वल्पबुद्धिबलेन्द्रियः। श्वसनोऽरुचिमान् भिन्न-कांस्यपात्रहतस्वरः। ष्ठीवति श्लेष्मणा हीनं तथैवारतिपीडितः। सम्प्रस् तास्यनासाक्षः शुष्करक्षमलच्छविः ।। अध्वप्रशोषी स्रस्ताङ्गः सम्भृष्टपरुषच्छविः । प्रसुप्तगात्रावयवः शुष्कलोमगलाननः । ४ । व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः। लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना । ५। रक्तक्षयाद् वेदनाभिस्तथैवाहास्यत्रणात् । वणितस्य भवेच्छोषः स चासाध्यतमो मतः । ६ । व्यायामभाराध्ययनैरभिघातातिमैथुनैः। कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम् । तस्योरसि क्षते रक्त पूयः श्लेष्मा च गच्छति । कासमानश्छईयेच्च पीतरक्तसितारुणम् । सन्तप्तवक्षाः सोऽत्यर्थं दूयनात् परिताम्यति। दुर्गन्धवदनोच्छासो भिन्नवर्णस्वरो नरः । इति । अत्र व्यावायशोषः शक्रक्षयजः शोकशोषस्थाविटयशोषो तु तथा व्रणशोषश्च रसक्षयजा इति क्षयजशोषेषु व्यवायशोकवाद्धक्यव्रणशोषा लब्धा भवन्ति। व्यायामाध्वोरःक्षतजास्तु साहसजाः साहसजेषु लब्धाः अपरेच साहसादिजाः शोषास्तेषां मते न लभ्यन्ते इति नानखात् तन्मतं हेयम् । एतेन तनिरस्तं, यत् तूक्तव्यवायादिजाः सप्त शोषा न राजयक्ष्माणः केवलधातुशोषमात्रतया व्याख्याय राजयक्ष्मलं तेषां न व्याचष्टे । केषाश्चिदेव शोषो हि कारणभेदमागतः । न तत्र दोषलिङ्गानां समस्तानां निपातनम्। क्षया एव
For Private and Personal Use Only