________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२५६
चरक-संहिता। गोमय चुर्णीयमिन्द्रिय दध्यक्षतद्विजातीनामृषभाणां नृपस्य च । रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च ॥ सुरध्वजपताकानां फलानां पावकस्य च । कन्यानां वर्द्धमानानां बद्धस्यैकपशोस्तथा। पृथिव्या उद्धृतायाश्च वह प्रज्वलितस्य च । मोदकानां सुमनसां शुक्लानां चन्दनस्य च ॥ मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च। नृभिर्धेन्वाः सवत्साया बड़वायाः स्त्रियास्तथा ॥
मासीनं समे देशे शुचौ शुचिम् । उपसर्पति यो वैदे स च काय्येकरः स्मृतः॥ इति ॥३६॥
गङ्गाधरः-प्रशस्तदूतमुक्त्वा पथि चातुरवेश्मप्रवेशे च प्रशस्तमाहदधीत्यादि। ऋषभो नृपः। सितस्य श्वेतवर्णस्य तुरगस्य । फलानामित्यामानाम, पकानामशस्तखेनोक्तखात्। पावकस्य पवित्रकरवस्तुनः। कन्यानां वर्द्धमानानां कन्यानामनूढ़ानामङ्कुरितयौवनानाम्। एकस्य बद्धपशोर्दर्शनं शुभं न खनेकस्य। उद्धृताया हलादिनोद्धतमृत्तिकायाः पृथिव्याः। शुक्लानां सुमनसां पुष्पाणाम् । चन्दनस्य शुक्लस्य, रक्तानुलेपनस्याप्रशस्तत्वेन उक्तखात्। नृभिः पूणस्य शकटस्य सवत्साया धेन्या बडवायाश्च सवत्सायाः
रिक्तोव्यते, तथा रिक्तति विशेषणेन चतुर्थ्यादीनां निष्फलत्वसूचनेन कारम्भं प्रत्यनुपादेयतोपदिश्यते। शस्तमौत्पातिकमाकस्मिकं लक्षणे यस्य तत् शस्तोत्पातिकलक्षणम् ॥ ३६॥ :
चक्रपाणिः-दध्यक्षतेत्यादिना मार्गादिषु प्रशस्तदर्शनान्याह । सुरध्वजः शक्रध्वजः। कन्या. पुवर्द्रमानानामिति अङ्कारोपिताः कुमार्यः कुमाराश्च वर्द्धमानाः, पुरुषोत्तमवत् समासः। अन्ये तु वर्द्धमानाः शरावा इत्याहुः, ते चालेपनादिना मण्डिता इति बोध्यम् । एकपशुः श्रेष्ठपशुः
कन्याघुवर्द्धमानानाम् इति चक्रसम्मतः पाठः।
For Private and Personal Use Only