________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः |
इन्द्रियस्थानम् ।
२२५३
I
शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टाश्च चेष्टितम् । उत्पद्यन्तेऽशुभान्येव प्रतिकर्म्मप्रवृत्तिषु ॥ दृश्यन्ते दारुणाः स्वप्ना दौरात्मामुपजायते । प्रेष्याः प्रतीपतां यान्ति प्र ताकृतिरुदीर्य्यते ॥ प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्द्धते कृत्स्नमोत्पातिकं घोरमनिष्टमुपलभ्यते । इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ॥ ३३ ॥ लक्षणानि यथोद्देशं यान्युक्तानि यथागमम् । मरणायेह रूपाणि पश्यतापि भिषग्विदा || अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम् । पृष्ठेनापि न वक्तव्यं तत्र यच्चोपघातुकम् + ।
येषां शब्दादयो बलाजसी प्रतिहत्य क्षिप्रं समभिवत्तन्ते सम्यगेव सम्पद्यन्ते, चेष्टा क्रिया चेष्टितं कम्म, शब्दादीनि तेषां तत्तद्याधेः प्रतिकर्मप्रवृत्तिशुभान्युत्पद्यन्ते इति । अपराण्याह - दृश्यन्ते इत्यादि । यैर्दारुणाः स्त्रमा दृश्यन्ते, येषां दौरात्म्यमुपजायते, येषां प्रेष्याः भृत्याः प्रतीपतां विरोधितां यान्ति, यषां प्रेताकृतिमृताकार उदीय्यते, येषां प्रकृतिरत्यर्थ हीयते, येषां विकृतिश्चामि सव्र्व्वतोभावेन वद्धेते, यस्मै वैद्यस्य यात्रायां पथि कृत्स्नं घोरं भयानकमतिशयमौत्पातिकं भवति, येषां सर्वेषामनिष्टसुपलभ्यते, तेषामित्येतानि उक्तानि लक्षणानि विनशिष्यतां मरिष्यतां मनुष्यणां भवन्ति ॥ ३३ ॥
गङ्गाधरः - लक्षणानीत्यादि । लक्षणानि यानि यथोक्तानि यथागमञ्चेह मरणाय रूपाणि पश्यतापि भिषग्विदा वैदान अपृष्टेन तदातुरामात्य
उपपद्यन्ते सिध्यन्ति । नानाप्रकृतय इति परस्परं विरुद्वस्वभावाः । क्रिया इति प्रतिक्रियाः । प्रतिकर्मप्रवृत्तिश्चिकित्साप्रवृत्तिः । औत्पातिकमिति आकस्मिकम्, तस्य विशेषणमरिष्टमिति, तेन अरिष्टमौत्पातिकमिति फलति ॥ ३१- ३३ ॥
* क्रियाश्चेति चक्रः ।
+ यत्रोपघातकम् इति च पाठः ।
For Private and Personal Use Only