________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२५२
चरक संहिता |
सततस्पन्दना देशाः शरीरे येऽभिलचिताः । ते स्तम्भानुगताः सर्व्वे न चलन्ति कथञ्चन ॥ गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः । विपर्यासेन वर्त्तन्ते स्थानेष्वन्येषु तद्विधाः ॥ नखेषु जायते पुष्पं पङ्को दन्तेषु जायते । जटाः पदमसु जायन्ते सीमन्ताश्चापि मूर्द्धनि ॥ भेषजानि न संवृत्तिं प्राप्नुवन्ति तथा रुचिम् यानि वाप्युपपद्यन्ते तेषां कर्म न सिध्यति ॥ ३२ ॥ नानाप्रकृतयः क्रूरा विकारा विविधौषधाः । क्षिप्रं समभिवर्त्तन्ते प्रतिहत्य बलौजसी ॥
।
Acharya Shri Kailassagarsuri Gyanmandir
| गोमयचूर्णीयमिन्द्रियम्
विशुष्यति तेषाम् । येषां मूर्द्धि धमो वाष्पनिगमो जायते तेषाम् । येषां मृद्धि दारुणाख्यो गोमयचूर्णाभश्चूर्णको जायते तेषाम् । येषां सर्व्वेषामेव सततस्पन्दना ये शरीरप्रदेशा अभिलक्षितास्ते शरीरप्रदेशाः स्तम्भानुगताः स्तब्धा भवन्ति न च चलन्ति कथञ्चित् तेषाम् । येषां शरीरप्रदेशानां शीतादयो गुणा विपर्यासेन विपर्ययरूपेण शीतम् उष्णत्वेन उष्णः शीतत्वेन मृदुर्दारुणत्वेन दारुणो मृदुत्वेन शुक्लः कृष्णत्वेन कृष्णः शुक्लत्वेन रक्तोऽरक्तत्वेनारक्तो रक्तत्वेन स्थिरचलत्वेन चलः स्थिरत्वेन अथान्यानि यान्युपपद्यन्ते पृथुः संक्षिप्तत्वेन संक्षिप्तः पृथुत्वेन दीर्घौ ह्रस्वत्वेन ह्रस्वो दीर्घत्वेन अपतनधर्माणां पतनधर्मित्वं पतनधर्मिणाम् अपतनधखिमित्येवमादीनि यान्युपपद्यन्ते येषां तेषां कर्म्म न सिध्यति ॥ ३२ ॥
गङ्गाधरः- येषां न सिध्यति तानाह - नानेत्यादि । येषां विकारा व्याधयो नानाप्रकृतयो वातादिनानामकृतिकाः क्रूराः क्रूरगतयो विविधौषधाः प्रतिकारार्थमुपचारितनानौषधाः तेषां कम्मे न सिध्यति । क्षिप्रमित्यादि ।
For Private and Personal Use Only
चूर्णक इति " यस्य गोमयचूर्णाभम्" इत्यादिग्रन्थोक्तश्चूर्णकः | स्थानेष्वन्येषु तद्विधा इति शरीरान्तरदेशेषु, बहुवचनेन स्नेहादयो विपर्य्यासेन वर्त्तन्त इत्यर्थः । संवृत्तिमिति निष्पत्तिम् । * यथारुचि इत्यपि पाठः ।