SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२८ चरक-संहिता। सोमरणीयमिन्द्रियम् नाभिं वस्तिशिरो मूत्रं पुरीषञ्चापि मारुतः । विबध्य ४ जनयन् शूलं सयो मुष्णाति जीवितम् ॥ ११॥ भिदेरते वङ्कणौ यस्य वातशूलैः समन्ततः। भिन्नं पुरीषं तृष्णा च सद्यः प्राणान् जहाति सः ॥ १२ ॥ आप्लुतं मारुतेनेह शरीरं यस्य केवलम् । भिन्नं पुरीषं तृष्णा च सद्यः प्राणान् जहाति सः॥ १३ ॥ शरीरं शोफितं यस्य वातशोफेन देहिनः। भिन्नं पुरीषं तृष्णा च सयः प्राणान् जहाति सः ॥१४॥ पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका । तृष्णा गुदग्रहश्चोग्रः सद्यः प्राणान् जहाति सः ॥१५॥ गङ्गाधरः-नाभिमित्यादि। नरस्य मारुतो नाभिं विवध्य वस्तिशिरो विवध्य मूत्रं पुरीषश्चापि विवध्य शूलं जनयन् जीवितं सद्यो मुष्णाति ॥११॥ गङ्गाधरः--भिद्यते इत्यादि। यस्य नरस्य वातशूलचंतणो समन्ततश्चतुदिक्षु भिद्यते भेदवत् पीड्य ते, पुरीषश्च भिन्नं द्रवीभूतं भवति, तृष्णा च भवति, स नरः प्राणान् सद्यो जहानि ॥१२॥ गङ्गाधरः --आप्लुतमित्यादि। यस्य केवलं कृत्स्नं शरीरमिह मारुतेन आप्लुतं विगुणीभावेन व्याप्तं, पुरीषञ्च भिन्न द्रवीभूतं, तृष्णा च वर्त्तते, स प्राणान् सद्यो जहाति ॥१३॥ गङ्गाधरः--शरीरमित्यादि। स्पष्टम् ।। १४ ॥ गङ्गाधरः-पक्काशयेत्यादि । परिकर्तिका कर्त्तनवत् पीड़ा। गुदग्रहो गुदस्य रुक्॥१५॥ चक्रपाणिः वस्तिशीर्षमिति वस्त्यूद्ध भागम् । प्रच्छिन्नमिति प्रच्छिन्नमिव प्रच्छिन्नं छेदनाकारवेदनायुक्तस्वात्। आप्लुतमिति व्याप्तम्। शोफितमिति शोफयुक्तम् । परिकर्तिका परिकर्त्तनाकारा वेदना ॥ ११-१५॥ * वस्तिशिरः इत्यन्न वस्तिशीर्ष तथा बिबध्य इत्यत्र प्रच्छिन्नमिति पाठान्तरम्। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy