________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः सूत्रस्थानम् ।
६८७ लीढं दोषमुक्तिश्य कायतो न निहरति न वहिः करोति, तत् सर्चमाहारजातम् अहितायोपदिश्यते । एतेनान्यत्रोक्तान्यनुमतानि। तथाच सुश्रुते यान्यधिकानि तयथा-“काकमाची पिप्पलीमरिचाभ्याम् । नाड़ीभङ्गशाककुक्कुटदधीनि च नैकध्यम् । पित्तेन वा मांसानि। सुराकृशरापायसांश्च नैकध्यम् । सौवीरकेण सह तिलशष्कुलीम् । मत्स्यैः सहेक्षुविकारान्। कदलीफलं तालफलेन पयसा दन्ना तक्रेण वा । निकुचफलं पयसा दना मापसूपेन वा मधुना घृतेन च । प्राक् पयसः पयोऽन्ते वा इति संयोगादहितानि।” संस्कारकम्मतो यथा“कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्वग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात्। कांस्यपात्रे दशरात्रपयुप्रषितं सर्पिः । मत्स्यपरिपचने शृङ्गवेरपरिपचने वा सिद्धां काकमाचीम् । नारिकेलेन वराहवसापरिभृष्टां बलाकाम् । मानविरुद्धां यथा-स्नेही मधुस्नेही जलस्नेही वा विशेषादान्तरीक्षोदकानुपानौ । अत उद्धे रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानि यथा-तत्र मधुराम्लो रसवीय्येविरुद्धौ । मधुरलवणो च मधुरकटुको च सव्वतः । मधुरतिक्तो रसविपाका. भ्याम् । मधुरकषायो चाम्ललवणौ रसतः। अम्लकटुको रसविपाकाभ्याम् । अम्लतिक्तौ अम्लकषायौ च सव्वतः । लवणकटको रसवीर्याभ्याम्। लवणतिक्तो लवणकषायौ च सर्वतः । कटुतिक्तौ रसवीर्याभ्याम् । कटुकपायौ तिक्तकषायो च रसतः। तरतमयोगयुक्तांश्च भावानतिरुक्षानतिस्निग्धानत्युप्णानतिशीता. नित्येवमादीनि विवज्जयेत् । भवन्ति चात्र । विरुद्धान्येवमादीनि रसवीर्यविपाकतः । तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम् ॥ सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च । स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ॥ व्यायामशीलो बलवान् । शिशुश्च स्निग्धोऽग्निमांश्चापि महाशनश्च। आप्नोति रोगान् न विरुद्धजातानभ्यासतश्चाल्पतया च जन्तुः ॥” इति। अथैषु मध्ये . पयसा मत्स्यादीन् संयोगात् । सापपतैलभृष्टकपोतादीन् संस्कारात् । भस्मपांशुपरिध्वस्तहारीतकमांसादीन् भूदेशतः। उष्णात्तस्य मधु चेत्यादीन शरीरदेशतः। पर्युप्रषितकम्पिल्लकादीन कालतः। मधुसर्पिषी समधृते इत्यादिना मात्रातः । आदिना दोषव्याधिप्रकृतिभ्यस्तु वाते कपायरसादीन् रसतः । एवं प्रकृतितश्च । पिण्डालुकादीन् गुल्मादिव्याधितः । विषादीन् स्वभावतो विरुद्वान विद्यादिति । यानि खलु द्विरसादीनि द्रव्याप्युक्तानि यथायथं द्विदोषादिषूपयोज्यानि तानि अपि, दोषमानाव्येति दोषानुक्लियरूपान् जनयित्वा न निर्हरतीति ; अनेन वमनविरेचनदन्याणि निराकरोति, तानि हि दोषानास्राच्य निर्हरान्त।
For Private and Personal Use Only