________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्म अध्यायः ]
सूत्रस्थानम् ।
८७
यानि लक्षणानि भवन्ति भूत्वा न भवन्तीति तेषामभाव इत्येवं वयं न ब्रूमः । किन्तु ब्रवीषीति तदुच्यते । किन्वित्यादि । यः पुमान् केषुचित् लक्षणान्यवस्थितानि केषुचिदनवस्थितानि पश्यन् येषु वस्तुषु लक्षणानां भावं विद्यमानतां न पश्यति स तानि वस्तूनि लक्षणाभावेन तेन प्रतिपदाते अनुमीयते तानि वस्तूनि तल्लक्षणाभावस्य प्रमेयाणि भवन्ति । इति लक्षणावस्थितवस्त्वपेक्षया खल्वभावस्य सिद्धेरन्यलक्षणोपपत्तेरिति हेतुर्नाहेतुरिति । “प्रागुत्पत्तेरभावोपपत्तेश्च ।” सूत्रस्यास्य भाष्यम् । - " अभाव तं खलु भवति प्राकू चोत्पत्तेरविदद्यमानता, उत्पन्नस्य चात्मनो हानादविद्यमानता । तत्र अलक्षितेषु वासःसु प्रागुत्पतेरविदद्यमानतालक्षणो लक्षणानामभावो नेतर इति ।" भाष्यस्यास्यानुव्याख्यानम् । - अन्यलक्षणोपपत्तेरिति वचनेन वैलक्षण्यं वस्तूनामभावो दर्शितः । लक्षितेष्वलक्षणलक्षितत्वादलक्षितानामित्यादुक्तरूपेण । लक्षितेष्वलक्षितानां लक्षणाभाव एवं वैलक्षण्यं तदेकेनोदाहरणेनान्योन्याभावात्यन्ताभावौ द्वौ प्रदर्शितौ । अलक्षितानां वाससां लक्षणतो वैलक्षण्यं पृथक्त नाम गुणो लक्षितेषु वासःसु । “पृथगन्यदित्यनर्थान्तरम्" इति कणादसूत्रम् । “पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता" इति चरकेणोक्तम् । तथा च । लक्षितेषु वासः स्वलक्षितानां वाससां लक्षणानि न सन्तीत्यत्यन्ताभावः । स चापीह पृथक्त्वम् । वाससां ह्यलक्षितानां तल्लक्षणैः सम्बन्धः समवायः स खल्वपृथग्भावः सम्यग्योगाख्यपृथक्त्व विपर्य्ययो मेलको भावः । तेषामलक्षितवासोलक्षणानां लक्षितवासःसु तत्समवायसम्बन्धप्रतिषेध एव समवायविपय्ययस्त्वयोगाख्यः पृथक्त्वमेवेति । इत्येवं द्वावभावावुपपादा मागभावः उपपादयते । प्रागुत्पतेरभावोपपत्तेश्चेति । नन्वेवमस्तु अन्योन्याभावात्यन्ताभावयोर्वस्तुभूतयोः प्रमेयसिद्धिराभ्यामन्यौ चाभावौ प्रागभावध्वंसौ प्रागुत्पत्तेर्भावानामुत्पन्नानामुत्तरकालञ्च दृश्येते तयोः प्रमेयं कथं सिध्यतीत्यत आह भाष्यम् । अभावद्वै तमित्यादि । द्वैतं द्वितया वर्त्तते यत्तद् द्वैतम् । तदाथा प्राक् चेत्यादि । प्रागुत्पत्तेर्भावस्य या चाविदद्यमानता अवत्तेनं स उत्पन्नस्य भावस्यात्मनः स्वस्य सद्भावहेतोर्हानात् त्यागादविदामानता अवर्त्तनं स ध्वंस इति द्वैतमभावस्य । तदुदाहरति । अलोहितानि बालांस्यानयेति प्रेरणे तंत्रालक्षितेषु वासःसु लोहितेषु प्रागुत्पत्ते जेन्नः पूर्श्वकाले यदवर्त्तनं कार्य्यरूपेण समवायिकारणानां वर्तनाभावः स खलु समवायिकारणानां स्वस्वरूपेण वर्त्तनं पृथक् पृथक तत्तस्य कार्यस्य प्रागभावः ।
प्रागभावः ।
For Private and Personal Use Only