________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
चरक-संहिता। (दीर्घजीवितीयः कश्चित् वस्त्रानेता पुमान् अलोहितं वस्त्रमानयेति नियुक्तोऽन्येषु वासःसु लक्षणानामुपपत्तिं लोहितान्यलक्षणानामुपपत्तिमिदं वासो न लोहितमित्येवमुपपत्तिं पश्यति। नैवं लक्षितेषु। दृश्यमानेषु लोहितेषु वासःसु तथा खल्वलोहितलक्षणोपपत्तिं ग्रहणयोग्यतां न पश्यति। सोऽयं खलु स एषोऽलोहितवस्त्रानयने नियुक्तः पुमान् अलोहितलक्षणाभावं लोहितलक्षणं पश्यन्नभावेन खल्वलोहिताभावेन लोहितेनार्थ रक्तवस्त्रं नेतुपयोग्य प्रतिपद्यते उपलभते ; इति तल्लक्षणाभावज्ञानेन एतल्लोहितं वस्त्र ग्रहणयोग्यखाभाववदित्यनुमीयत इति एतद्वस्त्रमग्राह्यत्वेन प्रमेयवभावस्येति । अवस्तुभूतस्वभावोऽपदाथबादप्रमेयखात् न प्रमाणमिति तदुदाहरणमिह दर्शितमिति । अत्र वादिप्रदर्शितदोषमाह। “तत्सिद्धेरलक्षितेष्वहेतुः।" सूत्रस्यास्य भाष्यम् । “तेषु वासःसु लक्षितेषु सिद्धिर्विद्यमानता येषां भवति न तेषामभावो लक्षणानाम् । यानि च लक्षितेषु विद्यन्ते लक्षणानि तेषामलक्षितप्वभाव इत्यहेतुः। यानि खलु भवन्ति तेषामभावो वयाहत इति ।” भाष्यस्य चास्यानुवयाख्यानमिदम् ।नन्वसति सति च वस्तुन्यभावशब्दो वत्ततेऽन्यलक्षणोपपत्तेरिति हेतुरहेतुः हेखाभासः। कस्मात् ? अलक्षितेषु तत्सिद्धः। कथमलक्षितेषु तत्सिद्धिरित्यत आह । तेवित्यादि। तेषु लक्षितेषु वासःसु खल्बलोहितेषु सिद्धिः अलोहितस्य विद्यमानता येषां लक्षणानामलोहितस्थूलसूत्रनिम्तिखादिरूपाणां भवति तेषु लक्षितेषु खल्वलौहित्यस्थूलमुत्रनिम्मितवासःसु अलक्षितलक्षणानां लोहितसूक्ष्मसूत्रनिम्तिवस्त्रलक्षणानां नाभावोऽस्ति । तर्हि केषामभावः कुत्रास्तीत्यत आह । यानि चेत्यादि। यानि च लक्षणानि लक्षितेषु अलोहितस्थूलमूत्रनिम्भितेषु वस्त्रेषु खत्वानेतोषूपादयेषु अलोहितस्थूलसूत्रनिर्माणादीनि विद्यन्ते तेषां लक्षणानामलक्षितेषु लोहितसूक्ष्मसूत्रनिम्मितेषु अभावोऽस्तीति तस्मादहेतुरन्यलक्षणोपपत्तेरिति हेतुः। कस्मात् खल्वलौहित्यादीनामभावो लोहितेषु नाभाव उच्यते ? इत्यत आह यानि खल्वित्यादि ; यानि वस्तूनि खलु भवन्ति तानि भावाः, यानि भूखा न भवन्ति तेषां सोऽभावः, स चात्र व्याहत इत्यतोऽन्यलक्षणोपपत्तेरिति हेतुरहेतुः । अत्र सिद्धान्तमाह । “न लक्षणावस्थितापेक्षसिद्धः।” सूत्रस्यास्य भाष्यम् ।-"न ब्रूमो यानि लक्षणानि भवन्ति तेषामभाव इति । किन्तु केषुचिल्लक्षणान्यवस्थितानि, अनवस्थितानि केषुचित् अवेक्षमाणो येषु लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रतिपदाते इति ।” भाष्यस्यास्यानुवयाख्यानम् । न खलु वयमेवं ब्रूमः ।
For Private and Personal Use Only