________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४०
चरक-संहिता। [ आत्रेयभद्काप्यीयः इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः।
चिकित्सा यैरविदितैर्न यथावत् प्रवर्त्तते ॥ ३६॥ सर्वतोमण्डलं तच्चाकाशनित्यवान्नित्यम्। तथा परिमण्डलं सर्षपं तत्रानित्यं पारिमाण्डल्यम्। न च परिमण्डलं महत्त्वाणुखविशेषः। परि सव्र्वतो मण्डलं परिमण्डलम् । सतो वर्तुले द्रव्ये गगने महत् सपेपे वणु। तस्मात् परिमण्डले परिमण्डलाभाव इति न खणुमहद्दीघंहस्खलाभाव इति । अथ तहि वंशीसषेपयवरक्तिमाषकशाणकोलकर्षशुक्तिपलप्रसृतकुड़वादिपरिमाणं किं न परिमाणमिति चेत् ? सत्यम् । तत् परिमाणं हि गुरुत्खनिबन्धनं तुल्यक्रिययानुमेयं गुरुवमेव सर्षपादिसंज्ञपरिमाणम् । न खेतत् प्रकृतिभूतं परिमाणम्। सर्वपादिकाणुमहत्परिमाणनिबन्धनबाद गुरुखस्यैव परिमाणसंशा बोध्येति।
अथ संस्कारः। संस्कारः करणं मत इति। वक्ष्यते च रसविमानेकरणं पुनः स्वाभाविकानां द्रव्याणामभिसंस्कारः। संस्कारो हि गुणाधानमुच्यते। ते गुणास्तोयाग्निसन्निकर्षशौचमन्थनदेशकालवशेन भावनादिभिः कालप्रकर्षभाजनादिभिश्वाधीयन्ते । इति व्याख्यास्यते चैतद्विस्तरेण तत्रैवेति । ___अथाभ्यासः। भावाभ्यसनमभ्यासः शीलनं सततक्रियेति । भावानामभ्यसनमभ्यास आत्तिः । शीलनं पुनःपुनरनुष्ठानं सततकरणं क्रियासातत्यम् । येन देहमनोभ्यामेकीभूयाहाराचारविशेषफलं चिरमवतिष्ठते सोऽभ्यासः। यथा यदभ्यवहतं, प्रतिदिनमन्नमभ्यस्तं देहेन सहकीभूतं तत्फलं चिरमवतिष्ठते। यथा च श्लोकादिकं सततमुच्चारितं वाचा मनसा सहकीभूतस्तद्वर्णात्मकध्वनिश्चिरमवतिष्ठते इति तत् पुनरुच्चारयते स्मृवेति । तत् संस्कारहेतुरभ्यास इति। यत आहाराभ्यासेन शरीरं संस्कृतं भवति, शास्त्राध्ययनेन मनः संस्कृतं भवति बुद्धिश्च संस्कृता सती निर्मला भवतीति ।
इतीत्यादि। इति परादयः सर्वेऽभ्यासान्ता दश गुणाः खलक्षणैरुक्ता यैदशभिगुणैरविदितैर्यथावत् चिकित्सा वैद्यान्न प्रवत्तते । इत्येतैः विदितैरेव गुणवैद्याच्चिकित्सा यथावत् प्रवत्तेते। ननु व्यवायिविकाशिनी द्वौ गुणो नोक्ताविहेति चेत् ? न । तीक्ष्णगुणविशेषत्वात् तयोस्तीक्ष्णेऽन्तभयञ्च संयोगसंस्कारविशेषरूपोऽपि विशेषेण चिकित्सोपयुक्तत्वात् पृथगुच्यते। न यथावत् प्रवर्तत इति वचनेन शब्दादिषु च गुर्वादिषु च परादीनामप्राधान् सूचयात ॥ ३६॥
For Private and Personal Use Only