________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [आत्रेयभद्रकाप्यीयः एते श्रु तवयोवृद्धा जितात्मानो महषयः । वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः ॥ तेषां तत्रोपविष्टानामियमर्थवती कथा। बभूवार्थविदां सम्यग्रसाहारविनिश्चये ॥२॥ एक एव रस इत्युवाच भद्रकाप्यः। यं पञ्चानामिन्द्रियार्थानामन्यतमं जिह्वाविषयभावमाचक्षते कुशलाः। स पुनरुदकादनन्य इति ॥३॥
बाघदेशवासी वाहीकदेशीयश्च काकायनपिः। इति निमिवा?विदयो राजर्षिखादैते दश महयः श्रुतेन वयसा च वृद्धा विजिहीर्षवो विहत्तुमिच्छवश्चैत्ररथे नाम्ना रम्ये वने समीयुः संगता बभूवुः। तत्र वने खलूपविष्टानां तेषां पुनव्वेसुप्रभृतीनामर्थविदामियं वक्ष्यमाणा रसाहारविनिश्चयेऽर्थवती प्रयोजनवती कथा बभूव ॥२॥
गङ्गाधरः-का सा कथेति ? अत उच्यते-एक एवेत्यादि। तेषां मध्ये भद्रकाप्य ऋषि एक एव रस इत्युवाच। कोऽसावेको रस · इति ? अत उच्यते-यं पुनरित्यादि। कुशलाः पण्डिता यं पश्चानामिन्द्रियाथानामन्यतममेकतमं जिहन्द्रियवैषयिकं भावमाचक्षते स रस एक एव न तु द्विविधादिः जिह्वन्द्रियविषयवसामान्यात् । जिह्वावैपयिको भावश्च शीतोष्णमृदुकठिनादिश्च भावस्तत्र प्रसङ्गवारणाय। पञ्चानामिन्द्रियार्थानां मध्ये यो यो भावोऽन्य एकः परस्परविभिन्नः श्रोत्रादिग्राह्यवेन भिन्नभिन्नधर्मा तेषु मध्ये जिह्वन्द्रियवैषयिको यो भावः स रसः। शीतोष्णादिस्तु स्पर्शनेन्द्रियग्राह्यखेन भिन्नः । जिह्वायां हि त्रीणीन्द्रियाणि वर्तन्ते। वागिन्द्रियं रसनेन्द्रियं स्पर्शनेन्द्रियश्च
रसप्रकरणमादौ कृतम् । मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापनं शिष्यव्युत्पत्यर्थम् । रसेनाहारविनिश्चयो रसाहारविनिश्चयः, किंबा, "अयं रसविनिश्चयः तथापरञ्चातो विपाकानाम्' इत्यादिराहारविनिश्चयः ॥ १२ ॥
चक्रपाणिः-एक एवेत्यादि। हान्द्रयार्थानामिति निर्धारणे षष्टी। अन्यतममित्येकम्, अन्यशब्दो ह्ययमेकवचनः, यथा “अन्यो दक्षिणेन गतः, अन्य उत्तरेण,” एक इत्यर्थः, तमशब्दः
For Private and Personal Use Only