________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६८
चरक-संहिता। [ यजःपुरुषीय: समूहो निःसंशय फराणाम् । योगो वैद्यगुणानाम् । विज्ञानमौषधानाम् । शास्त्रसहितस्तर्कः साधनान.म्। संप्रतिपत्तिः कालज्ञानप्रयोजनानाम् । ॐ अव्यवसायः कालातिप्रतिपत्तिहेतूनाम्। इष्टकम्म ता निःसंशयकराणाम्। असमर्थता भयकराणाम् । तद्विद्यसम्झाषा बुद्धवर्द्धनान.म्। आचार्यः शास्त्राधिगमहेतून.म्। आयुर्वेदोऽमृतानाम्। सद्वचनमनुष्ठेया म्। असम्बन्ध वच मसंग्रहण सव्वाहितान.म् ।।
सव्वे सन्न्यासः सुखकाणामिति ॥ २० ॥ निर्वेदः, वैराग्यादितो मनःखेदाभावोऽधात्तस्याधृतिभावस्य लक्षणानां श्रेष्ठतमः, असारलक्षणानाञ्च श्रेष्ठतमः, वैद्यसमूहाऽष्टाङ्गायुर्वेदविदां समूहश्चिकित्सायां रोगादितत्त्वज्ञान निःसंशयकराणां श्रेष्ठतमः। योगा भेषजानां सम्यग्योगो वैद्यगुणानां श्रेष्ठतमः। विज्ञानं ( आयुर्वेदादिशास्त्रेषु ) तत्त्वशानं शारीरमानसव्याधेरोषधानां मध्ये श्रेष्ठतममोपयम् ।
शास्त्रसहितस्तके ऊहः साधनानां कम्मसिद्धिनिप्पत्तिकराणां श्रेष्ठतमं साधनम्। सम्प्रतिपत्तिः सम्यग् ज्ञानं कालज्ञानस्य प्रयोजनानां मध्ये श्रष्ठतम कालज्ञानप्रयोजनम् । अव्यवसायो व्यवसायाकरणं कालस्यातिप्रतिपत्तेः प्रतिपत्त्यतिक्रमस्य हेतूनां श्रेष्ठतमः कुव्यवसायातिप्रतिपत्तिहतुः। __ दृष्टकम्मता दृष्टं चिकित्सितकम्मे येन तस्य भावो दृष्टकम्मता चिकित्साकम्मेणि निःसंशयकराणां श्रेष्ठनमा निःसंशयकरी। असमर्थता भयकराणां श्रेष्ठतमा। तद्विद्यसम्भाषा समानशास्त्राचीतवतां परस्परवादो जल्पवितण्डे च बुद्धिवर्द्धनानां मध्ये श्रेष्ठतमा बुद्धिवद्धेनी। आचाय्यः शास्त्राणामर्थाधिगमहेतूनां श्रष्ठतमोऽर्थाधिगमहेतुः। आयुवेदोऽमृतानां श्रेष्ठतमोऽमृतः। 'वेदा ह्यमृता' इत्युक्तं छान्दोग्योपनिषदि। सद्वचनं साधु वाक्यमनुष्ठेयानां मध्ये श्रेष्ठतममनुष्ठेयम् । असम्बन्धवचनम् असंग्रहणानां वहुभाषणानां सव्वस्य वार्तलक्षणानामित्यारोग्यलक्षणानाम् । ज्ञानमित्यौपधविज्ञानं, साधनानामिति ज्ञानसाधनानाम्, सम्प्रतिपत्तिः यथाकर्त्तव्यतानुष्ठानम, तृप्तिराहारगुणानामित्यत्र गुणशब्दः प्रशस्तधर्मवचनः। एक* तृप्तिराहारगुणानामित्यधिकपाठश्चक्र। असदग्रहणं सर्वाहितानामिति पाठान्तरम् ।
For Private and Personal Use Only