________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
चरक संहिता |
[ दीघञ्जीवितीयः
व्यवहितं वत्तमानक्षणम् । यावत् कालावच्छेदेन घटो भविष्यति तत्कालोउत्तरकालस्य प्राग्वर्त्तितदेतत्क्षणावच्छेदेन कार्य्यस्य तस्य भविष्यतो घटस्याधिकरणे तस्मिन् प्राक्क्षणे तद घटारम्भं करिष्यन्मृदबालुकाजलादीनां योगेन की भावप्रयोजकसंश्लेषणस्यात्यन्ताभावस्तस्य प्रतियोगि तचश्लेषणप्रतियोगि पुनस्तम्भित्वं यावद वस्तु । तदवच्छदको धर्मस्तु तद्भिन्नतावद्वस्तुनिष्ठो धर्मः तदनवच्छेदकधर्म्मस्तु तत्संश्लेषणत्वं तदेव समवायखमिति स्थात, तथा तदानीं भविष्यद घटारम्भकतत्तन्मृदादिसंयोगस्याप्यत्यन्ताभावोऽस्तीति तत्संयोगेऽतिप्रसङ्गः स्यात् । यदि चात्यन्ताभावोऽत्र स्वप्रतियोगितावच्छद. कावच्छिन्नत्वेन गृह्यते तदापि तुल्यम् । इतरसंयोगस्य तदानीं सत्त्वात् संयोगत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावासम्भवात् । वत्तमानस्य घटारम्भकदादः संयोगेन संश्लेषस्य सच्वात् संश्लेषत्वावच्छिन्नप्रतियोगिताकात्यन्तावस्यासम्भवादित्यतस्तन्न सम्यक् समवायत्वरूपधर्म्माभावाच्च । अन्ये तु म्यादीनां द्रव्याणां गुणैरपृथग्भावः समवायः । गुणेभ्यः पृथक भूम्यादिगुणैरपृथग्भवतीति व्युत्पत्त्या गुणगुणिनोरेकीभाव इति व्याप्तिनिश्चयादनेकविलक्षणानामेकीभावो यो भावः स समवायः कर्मणां द्रव्यस्य न समवायः, परन्तु योगः तस्य पय्र्याप्त्याख्यकत्वान्नाव्याप्तिः परम्परया समुदायेन समुदायिनां संयोगाच्च । पय्र्याप्तिर्हि युक्तत्याख्यो गुण इति आहुः । वस्तुतस्तु गुणः सह भूम्यादीनां प्रकृतिभूतद्रव्याणां गुणः सहितानामर्याद द्रव्यगुणकपणां यथायथमपृथग्भावः कार्य्यखेऽपि समुदाय लेने की भावो भवनं जन्मसमवायः । जातोत्तरकालं हि तत्राहितगुणादीनां योगस्तु युक्तिरेव तच्चावस्थान्तरगमनमपि भाक्तमेव जन्मोच्यते ।
1
ननु कथं न तन्मुख्यमुच्यते इत्यत आह । स नित्य इति । स समवायो नित्यः समवायिकारणानां क्रमात् संयोगाज्जातोऽपि विलक्षणानेकस्य द्रव्यादेः प्रकृतिभूतकारणस्य काय्य त्वकत्वसङ्ख्यावत्तासम्पादकत्वस्वभावेन समवाये प्रकृतिभूततदनेककारणस्यैकवद्भावलक्षणस्य संसिद्धत्वात् । न ह्यन्यथा लक्षणमस्य कदापि स्यात् तस्य स्वभावस्य नित्यत्वाच्च । न च यतः समवायि हेतु संयोगोऽपृथग्भावथ भावानां युगपत् सम्भवति । पूर्वं हि
एवोक्त' वैशेषिके यत – “अयुत सिद्धानाम् आधार्य्याधारभूतानां यः सम्बन्ध इहेति प्रत्ययहेतुः स समवायः" इति । स नित्य इति समवायोऽविनाशी, सत्यपि समबायिनां द्रव्याणां नाशे समवायो
For Private and Personal Use Only