________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः
सूत्रस्थानम् । लक्षणम्। आकाशं शब्दमात्रञ्च भूतादिश्वाणोत् पुनः॥ शब्दमानं तदाकाशं स्पर्शमात्रं ससज्ज ह। बलवानभवद्वायुस्तस्य स्पशौं गुणो मतः॥ आकाशः शब्दमावस्तु स्पर्शमात्रं समावृणोत् । वायुश्चापि विकुर्बाणो रूपमात्रं ससज्जे ह ॥ ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते। स्पर्शमात्रस्तु वायुर्वे रूपमात्रं समायणोत् ॥ ज्योतिश्चापि विकुणिं रसमात्रं ससर्ज ह। सम्भवन्ति ततश्चापस्ता वै सवरसात्मिकाः॥ रसमात्रा अपस्तास्तु रूपमात्रोऽग्निरायणोत् । आपश्चापि विकुर्वन्यो गन्धमात्रां ससजिरे॥ संघातो जायते ताभ्यस्तस्य गन्धो गुणो मतः। अद्भिः समाटता भूमिगेन्धमात्रगुणा तथा॥ तस्मिंस्तस्मिंस्तु सा मात्रा तेन तन्मात्रता स्मृता। अविशेषवाचकखात् अविशेषास्ततस्तु ते॥ एषान्खघोराऽमूढवाद विशेषास्तु ततश्च ते। भूततन्मात्रसोऽयं विज्ञ यस्तु परं परम् ॥वैकारिकादहङ्कारात् सत्त्वोद्रिक्तात तु सात्त्विकः। वैकारिकस्तु सर्गोऽयं युगपत् संप्रवर्तते ॥ बुद्धीन्द्रियाणि पञ्चैव पश्च कम्मन्द्रियाणि च। सतेजसात् साधकानि देवा वैकारिकादश ॥ एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् । श्रोत्रं वक् चक्षुपी जिता नासिका चैव पञ्चमी॥ शब्दादीनामवाप्त्यर्थ बुद्धियुक्तानि वक्ष्यति। पादौ पायुरुपस्थश्च हस्तौ वाक् पञ्चमी भवेत् ॥ गतिविसगो ह्यानन्दः शिल्पो वाक्यञ्च कम्मे तत् । आकाशः शब्दमात्रस्तं स्पर्शमात्रं तदाविशत् ॥ द्विगुणस्तु तदा वायुः शब्दस्पर्शात्मकोऽभवत्। रूपमात्रञ्चाविवेश शब्दस्पर्शगुणो मरुत्। त्रिगुणस्तु ततस्वग्निः सशब्दस्पशेरूपवान् ॥ शब्दस्पर्शरूपगुणो रसमात्र समाविशत् । तस्माच्चतुगुणा ह्यापो विज्ञ यास्तु रसात्मिकाः॥ शब्दस्पर्शरूपरसा गन्धमात्रमथाविशन् । संहता गन्धमात्रेण आचिन्वंस्ते महीमिमाम् ॥ तस्मात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते। शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः॥” इति । इत्येतानि चतुर्विंशतिस्तत्त्वानि खल्वधस्तात् परमव्योम्नि पञ्चाशदङ्गलेऽसौ परमात्मा स्वयम्भूभगवानव्यक्तः शिवस्तचतुर्विंशतितत्त्वरूपसर्वभूतमयो देवो भूखोद्धभौ। एवञ्च लोकं सृष्ट्वा तद्भदकान पुरुषान सिमृक्षुः स सर्वभूतमयः पुरुषः स्वादव्यक्तादिचतुर्विंशतितत्त्वमयाच्छरीरादादावपः ससर्ज । ततस्तास्वपसु तानि चतुविंशतिं तत्त्वानि वीजान्यक्षिपत् । तत्र तै-जैरेकमण्डमभवत् । तस्मिन्नण्डे प्रथमः शरीरी पुरुष एको बभूव । स नारायणो नाम । तदुक्तं मनुना–“सोऽभिध्याय शरीरात् स्वात् सिसृढविविधाः प्रजाः। अप एव ससर्जादौ तासु वीजमवासृजत् ॥ तदण्डमभवढेमं
For Private and Personal Use Only