________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६४ चरक-संहिता।
। यजःपुरुषीयः ससर्ज। यो व स स्वयंभूर्भगवानव्यक्तः परमव्योमैव व्योमकेशः प्रथमसंहतरूपः। स एवेत्थं विद्या तदाश्रयब्रह्मपुरुषादयतत् प्रधानान्तसंहतरूपः सन्नव्यक्तं नाम सदसदात्मकमात्मा बभूव । एष द्वितीयः संहतरूपः पुरुषः ।
एतदव्यक्तादिचतुविंशतितत्त्वानि तथैतच्चतुविंशतितत्त्वमयं लोकं पुरुषश्च देवनरादिकं सव्वं सत्यमनृतं प्रायेणाचार्या नव्याः साङ्ख्या उपदिशन्ति, न तु प्रधानान्तानां सगेम् । आदास्तु साङ्क्षप्रस्तत् सव्वमेवोपदिष्टम् । तद्यथा भुश्रते--“सव्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः सम्भवहेतुरव्यक्त नाम। तदेकं वहूनां क्षेत्रज्ञानामधिष्ठान समुद्र इवोदकानां भावानाम् । तस्मादेव क्षेत्राधिष्ठितादव्यक्तात् तल्लक्षण एव महानुत्पद्यते।” इत्यादिकमुपदिष्टम् । पराशरेणाप्येतदुपदिष्टं तद्यथा-- "गुणसाम्ये ततस्तस्मिन् पृथाः पुंसि व्यवस्थिते। कालः स्वरूपं रूपं तद्विष्णोमत्रेय वण्यते॥ ततस्तत् परमं ब्रह्म परमात्मा जगन्मयः। सवंगः सम्वभूतेशः सर्वात्मा परमेश्वरः ॥ प्रधानं पुरुपश्चापि प्रवेश्यात्मेच्छया हरिम् । क्षोभयामास सम्प्राप्त सगैकाले व्ययाव्यये ॥ यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते। मनसो नोपकत्वात् तथासौ परमेश्वरः॥ स एव क्षोभको ब्रह्मन् क्षोभ्यश्च पुरुषो मतः। स सङ्कोचविकाशाभ्यां प्रधानस्य व्यवस्थितः ।। गुणसाम्यात् ततस्तस्मात क्षेत्राधिष्ठितान्मुने। गुणव्यञ्जनसम्भूतिः सर्गकाले द्विजोत्तम । प्रधानतत्त्वसम्भूतं महान्तं तत् समाणोत् । सात्त्विको राजसश्चैव तामसश्च त्रिधा महान॥” इत्यादि। शेष सबै समानम् । लैङ्गे च-“गुणसाम्ये ततस्तस्मिन् सुविभागे तमोमये। सर्गकाले प्रधानस्य क्षेत्राधिष्ठितस्य वें॥ गुणभावाद्वाह्य आत्मा महान् प्रादुब्बभूव ह । सूक्ष्मेण वृहता सोऽथ ह्यव्यक्तेन समाप्तः ॥ सत्त्वोद्रिक्तो महानग्र सत्त्वयात्रः प्रकाशकः। मनो महांस्तु विशे यमेकं तत् कारणं स्मृतम् ॥ समुत्पन्नं लिङ्गमात्र क्षेत्रवाधिष्ठितन्तु तत्। धर्मादीनि च रूपाणि तस्य लोकार्थहेतवः॥ मनो महान् मतिब्रह्मा पूवुद्धिः ख्यातिरीश्वरः। प्रज्ञा चितिः स्मृतिः संविज्ञानं विखरमेव च ॥ महान् सृष्टि विकुरुते चोद्यमानः सिमुक्षया। सङ्कल्पो व्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ॥ त्रिगुणः स तु विज्ञ यः सात्त्वराजसतामसः। त्रिगुणादाजसोद्रिक्तादहङ्कारस्ततोऽभवत् ।। महता चाहतः सोऽभूद भूतादिर्वाह्यतस्ततः। तस्मादेव तमोद्रिक्तादहङ्कारादजायत ॥ भूततन्मात्रसगस्तु भूतादिस्तामसस्तु सः। भूतादिस्तु विकुणिः शब्दमात्रां ससज्ज ह ॥ आकाशं शुपिरं तस्मादुत्पन्न शब्द
For Private and Personal Use Only