________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૭૭૦
चरक संहिता |
[ महारोगः
नानात्मजाश्च ।
तत्र सामान्यजाः
व्याख्याताः ।
पूव्वमष्टोदरीये नानात्मजां स्त्रिहाध्यायेऽनुव्याख्यास्यामः । तद् यथा— अशीतिर्वातविकाराः । चत्वारिंशत् पित्तविकाराः । विंशतिः श्लेष्मविकाराः ॥ ८ ॥
तत्रादित एव वातविकाराननुव्याख्यास्यामः । नखभेदश्च विपादिका च पादशूलश्च पादत्रंशश्च पादसुप्तता च वातखुड्डताच गुल्फग्रहश्च पिण्डिकोष्टच सी च जानुभेदश्च जानुभिश्लेषश्चोरस्तम्भचोरुसादश्च पाङ्ग, ल्यञ्च गुदभ्रंशश्च गुदात्तिश्च वृषणानेपश्च शेफः स्तम्भश्च वङ्क्षणा
Acharya Shri Kailassagarsuri Gyanmandir
विकारान् विवृणोति तत इत्यादि । तत इति तत्रोपचयवलादिरूपाणि शुभानि । विकारसंशकानीति | विकाराः सामान्यजा नानात्मजाश्चेति द्विवेति शेषः । तत्र सामान्यजा इति सामान्येन तत्ताधित्वरूपेण जायन्ते वाताद्वा पित्ताद्वा कफाद्वा द्वन्द्वाद्वा सन्निपतिताद्वाऽन्यस्माद्वा ये ते सामान्यजाः । नानात्मजा इति नानात्मकत्वेन बहुव्याधित्वरूपेण जायन्ते वाताद्वा पित्ताद्वा कफाद्वा ये ते नानात्मजाः । ज्वरादयो हि ज्वरत्वावच्छिन्नाः प्रत्येकं वातादिव पित्तादितोऽपि जायन्ते । नखभेदविपादिकादयश्च केवलादेव वातात् बहुव्याधित्वावच्छिन्ना जायन्ते । न तु वातादिव पित्तादित इति बोध्यम् । तत्रेति सामान्यजनानात्मजविकारेषु मध्ये सामान्यजा इति स्थूला उदरादयः सूक्ष्माश्च व्यवस्थाकरणमित्यादिना व्याख्याता इत्यर्थः । इहाध्याये तु नानात्मजान् व्याख्यास्यामः । तद्यथेत्यादि । तत्रादित एवेत्यत्र भूरिदारुणविकारकत्तु खादिति हेतुरुन्नेयः ॥ ७७८ ॥
गङ्गाधरः- नखभेदश्चेत्यादि । नखभेदः कुनखः । विपादिका पाणिपादस्फुटनम् । वातखुड्डता चालुक इति लोके । पिण्डिका जान्वधोमांसपिण्डः । तस्योद्वेष्टनं दण्डादिनेव ताड़नम् । अत्र कश्विदाह गृध्रसी गृध्रसीशुलम् । ऊरुस्तम्भ ये वातादिभिर्दोषान्तरासंपृक्तऽन्यन्ते । विपादिका पाणिपादस्फुटनं, पादभ्रंशः पादस्यारोपविषय देशादन्यत्र पतनम्, सुप्तिः पादयोर्निष्क्रियत्वं स्पर्शाशिता वा, वातखुडका चालुक इति sta प्रसिद्धः । गृध्रसीशब्देन गृध्रसीशूलं गृह्यते, ऊरुस्तम्भेन च ऊरुस्तम्भनमात्रं वातजन्यत्वेन
For Private and Personal Use Only