________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(स्वेदाध्यायः
६३२
चरक-संहिता। वारुणामृतकैरण्ड-शिग्र मूलकसर्षपैः । वासावंशकरञ्जाक-पत्र रश्मन्तकस्य च ॥ शोभाञ्जनकशरीय-मालतीसुरसाज्जकः। पत्र रुतक्वाथ्य सलिलं नाड़ीस्वेदं प्रयोजयेत् ॥ भूतीकपञ्चमूलाम्यां शरीयः * दधिमस्तुना । मूत्ररम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत् ॥ १२॥ एत एव च नियंहाः प्रयोज्या जलकोष्ठके। स्वेदनार्थं घृतनीर-तेलकोष्ठांश्च कारयेत् ॥ १३ ॥ गङ्गाधरः-अन्यान्यपि नाड़ीस्वेदद्रव्याण्याह-वारुणेत्यादि। वरुण एव वारुण इति। अमृतकं गुडूची। शिनः शोभाञ्जनः। मलकं मलकवीजम्, सर्षपसाहचर्य्यात्। वासा वासकः। वंशो वेणुः। करजो गोकरञ्जः । अर्कः श्वेतो रक्तश्च। एषां वासादीनां पत्ररश्मन्तकस्य पाषाणभेदस्य चाङ्गेऱ्या वा पत्ररित्यन्वयः। शोभाञ्जनकः रक्तशोभाञ्जनोऽथवा किञ्चित् स्थूलफलः शोभाञ्जनकः। सुरसार्जको द्वौ पर्णासभेदो। एषां वरुणादीनां यथाह लपत्रादिभिरुतत्काथ्य देशकालविभागको भिषक्तमो युक्त्यपेक्षः नाड़ी. स्वेदं प्रयोजयेत् । एवमन्यान्यपि द्रव्याणि नाड़ीस्वेदस्याह-भूतीकेत्यादि। भूतीको यमानी। पञ्चमूलं महत् वातकफ़हरवात्। शैरीयो झिण्टी। दनो मस्तु दधिमस्तु । मूत्ररष्टभिः पूव्वोक्तः। अम्लरम्लवंगः। स्नेहधूततैलादिभिः सह उत्काथ्य वातश्लैष्मिके नाड़ीस्वेदं प्रयोजयेद देशादि विभागो भिषक्तम इति योज्यम् । क्रमेण त्रिविधविभागेनोक्त्या वातिकादिक्रमोक्तविकारेषु क्रमेण त्रय एते नाड़ीस्वेदा इति ख्यापितम् ॥ १२ ॥
गङ्गाधरः-एषामतिदेशञ्चान्यत्राप्याह-एत इत्यादि। एते ग्राम्यमांसादिकाथादयस्त्रयो निय्यू हाः क्रमाद्वातिकादिषु व्याधिषु जलकोष्ठके स्वेदे प्रयोज्या
तण्डुलाश्च स्नेहवत्तिलतण्डुलाः । ग्राम्येत्यादिना वातापहो नाडीस्वेद उक्तः, वारुणेत्यादिना कफापहः, भूतीकेत्यादिना वातश्लेष्मापहः। वारुणः वरुणः, अमृतका गुड़ ची, सर्षपैरित्यत्र पत्रैरिति संवध्यते, बशो वेणुः, पुनः शोभाञ्जनग्रहणात् द्वितीयो विटपशोभाञ्जनो गृह्यते, शैरीयः झिटी।
* सुरयेति वा पाठः।
For Private and Personal Use Only