SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४श अध्यायः ] सूत्रस्थानम् । द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि ॥ भूगृहेषु च जन्ताकेपूष्णगर्भगृहेषु च । विधूमाङ्गारतप्तेष्वभ्यक्तः स्विद्यति ना सुखम् ॥ १० ॥ ग्राम्यानूपौदकं मांसं पयो वस्तशिरस्तथा । वराहमध्यपित्तासृक स्नेहवत्तिलतण्डुलाः ॥ इत्येतानि समुत्क्वाथ्य नाड़ीस्वेदं प्रयोजयेत् । देशकालविभागज्ञो युक्तापेो भिषक्तमः ॥ ११ ॥ ६३१ कान् व्याधीन् स्वेदयेत् । रुक्षस्वेदत्वात् । श्लैष्मिकानित्यादि । पूव्र्व्वस्तिलादीनां पिण्डैतिकान विकारान् स्वेदयेत् स्निग्धत्वात् । वातश्लैष्मिकान् विकारांस्तु द्वाभ्यामेताभ्यां मिलिताभ्यां स्वेदयेदिति । पिण्डस्वेद एव सङ्करस्वेद उच्यते । अथैषां द्रव्याणां सर्व्वत्रैव स्वेदेष्वतिदिशति द्रव्याणीत्यादि । एतानि तिलादीनि द्रव्याणि प्रस्तरेष्वपि यथास्वं वातिके तिलादीनि श्लैष्मिके गोखरादिशकृदादीनि वातश्लैष्मिके तदुभयानि शस्यन्ते । प्रस्तरस्वेदविधिवेक्ष्यते - तथान्येषु येषु यानि शस्यन्ते तदाह - भूगृहेषु चेत्यादि । एतान्येव तिलादीनि द्रव्याणि नेहानुवत्तन्ते । कस्मादिति : अत आह-विधूमाङ्गारतप्तेष्विति । येषां काष्ठानां वातहरत्वं तेषां काष्टानां विधूमाङ्गारतप्तेषु भूगृहादिषु वातिको ना तैलाभ्यक्तः सुखं स्विद्यति । तथा कफहरकाष्टानां विधूमाङ्गारतप्तेषु भूगृहादिषु इलेष्मिको ना तैलाभ्यक्तः सुखं स्वियति । ताभ्यामुभाभ्यां काष्ठाभ्यां विधूमाङ्गारतप्तेषु भूगृहादिव वातइलेष्मिको ना तैलाभ्यक्तः सुखं स्विद्यति । इति विधूमाङ्गारपदेन तद्योग्यकाष्ठानि स्त्रिग्धरुक्षस्वदद्रव्याणि ख्यापितानि ॥ ९॥१० ॥ गङ्गाधरः– अथान्यस्वेदद्रव्याण्याह – ग्राम्येत्यादि । वस्तु शिरश्छागमस्तकम् । वराहस्य मध्यदेहः । पित्तश्चासृक् च स्नेहवद् यावद्वीजमेरण्डवीजादिकं तत्र प्राधान्यान्निस्तुषीकृत्य ग्रहणार्थं पृथगुक्तं तिलतण्डुला इति । इत्येतानि ग्राम्यमांसादीनि यथायोग्यं वातिके स्वेदनार्थमुत्काथ्य नाड़ीस्वेदं प्रयोजयेत् । स यो भिषक्तमो देशादिविभागशः स्यात् ॥ ११ ॥ For Private and Personal Use Only प्रस्तरस्वेदे कर्त्तव्या इति दर्शयति । भूस्वेदार्थेषु गृहेषु भूगृहेष्विति; उष्णगर्भगृहेष्विति कुटीस्वेदं दर्शयति, अभ्यक्त इति सम्यगभ्यक्तः । वस्तशिरश्छागमस्तकम् । स्नेहवन्तश्चैरण्डवीजादयः तिलाव 1
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy