________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्यायः
सूत्रस्थानम् ।
६१६ पाञ्चप्रस्मृतिकी पेया पायसो माषमिश्रकः । क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम् ॥ (सर्पिस्तैलवसामन्ज-तण्डुलप्रसृतैः कृता * । पाचप्रमृतिकी पेया पेया स्नेहनमिच्छता ॥ ३४ ॥ ग्राम्यानूपौदकं मांसं गुड़ दधि पयस्तिलान् । कुष्ठी शोषी प्रमेही च स्नेहने न प्रयोजयेत् ॥ स्नेहैर्यथास्वं तान् सिद्धैः स्नेहयेदविकारिभिः।
पिप्पलीभिहरीतक्या सिद्वैस्त्रिफलयापि वा ॥ ३५ ॥ • अपरश्चाह---पाश्चप्रसूतिकीत्यादि। वक्ष्यमाणा पाश्चप्रमृतिकी पेया पीता नरमचिरात् स्नेहयेत्। मापमिश्रः क्षीरसिद्धो । बहुसपिरादिस्नेहयुक्तस्तण्डुलकृतः पायसो भुक्तो नरमचिरात् स्नेहयति ।
पाञ्चप्रमृतिकी पेयामाह-सपिरित्यादि। पाश्चप्रसूतिकीति-संज्ञाबलात् । सपिरादीनां पञ्चानां प्रत्येकमेकैकं प्रसृतं पलद्वयं गृहीखा तैः पञ्चानां पञ्चभिः प्रमृतैः पड्गुणतोसे कृता पेया पाश्चप्रमृतिकी पेया। स्नेहनमिच्छता पेया पातव्या ॥३४॥
गङ्गाधरः-अथ याभिविचारणाभियेषां स्नेहनं न कायं तदाह-ग्राम्येत्यादि। कुष्ठी शोषी प्रमेही च स्वस्य स्नेहने ग्राम्यमांसमानपमांसमोदकञ्च मांसं गुड़ञ्च दधि च पयश्च तिलाश्च न प्रयोजयेत्, तद्वर्डकखात् । कैस्तु तान् स्नेहयेदिति ? अत आह-स्नेहै रित्यादि। कुष्ठायधिकारे कुष्ठादिहरलेन यथास्वं स्वस्वहरद्रव्येण सिद्धघृतादिभिः स्नेहैरविकारिभिस्तत्तद्विकारविरोधिखेन विकाराकारिभिस्तान कुष्ठिप्रभृतीन नरान वैद्यः स्नेहयेत् । अथवा पिप्पलीभिः कल्कैः सिद्धैः स्नेहैघृतादिभिः हरीतक्या कल्कभूतया वा सिद्धैः स्ने हैः त्रिफलया वा कल्कभूतया सिद्धेः स्नेहैस्तान कुष्ठिशोषिप्रमेहिणः स्नहयेत् ॥३५॥ इत्यादौ शृङ्ग बे रमिात शृङ्ग बेररसं, भृतमरित्रीकृतैः। पाञ्चप्रसूतिक्यग्रे वक्ष्यमाणा; माष. मिश्रको माषतण्डलकृतमन्नं ; पेया पातव्या ॥ ३४ ॥ चक्रपाणिः-यथास्वमिति। यो यत्र स्नेहो युज्यते सर्पिरादिः । सिद्धैरिति पिप्पलीभिस्तथा * कृतेत्यन्न शृतेति वा पाठः ।
For Private and Personal Use Only