________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०८ चरक-संहिता।
[स्नेहाध्यायः वातातपसहा ये च रुक्षा भाराध्यकर्षिताः। संशष्करतोरुधिरा निस्फीतकफमेदसः* ॥ अस्थिसन्धिशिरास्नायु-मर्मकोष्ठमहारुजः । बलवान् मारुतो येषां खानि चावृत्य तिष्ठति ॥ महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः । तेषां स्नेहयितव्यानां वसापानं विधीयते ॥ १६ ॥ दीप्ताग्नयः क्लशसहा घस्मराः स्नेहसेविनः । वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः ॥ २० ॥ येभ्यो येभ्यो हितो यो यः स्नेहः स परिकात्तितः।
स्नेहनस्य प्रकौ तु सप्तरात्रत्रिरात्रको ॥ २१॥ गङ्गाधरः-अथ वसा येषां हिता तानाह-वातातपेत्यादि। भारकर्षिता अध्यकर्षिताश्च। संशुष्करेतसो ये, ये च संशुष्करुधिराः, ये च निस्फीतकफमेदसः। निशब्दो निषधे। येषांकको न स्कीतो मेदश्च न स्कीतं ते क्षीणकफमेदस इति। ये चास्थ्यादिमहारुजः, अस्थ्यादिपु महारुना येषाम् । येषां खानीन्द्रियाणि स्रोतांसि चाहत्य बलवान् वायुस्तिष्ठति। येषामग्निवलं महत्। ये च नरा वसासात्म्यास्तेषां स्नेहयितव्यानां स्नेहाहाणां वसापानं प्रशस्यत्वेन विधीयते ॥१९॥
गङ्गाधरः-अथ येषां मज्जा हिनस्तानाह--दीप्तामय इत्यादि। घस्मरा अमरा बहुभोजिन इति। वाताश्चि ये, ये च करकोष्ठा अथ च स्नेह्याः स्नेहनार्हा न खस्नेह्यास्ते मज्जानमाप्नुयुः पिवेयुरिति ।। २०॥
गङ्गाधरः-उपसंहरति- येभ्य इत्यादि। अथ “प्रकर्ष स्नहने च कः” इति प्रश्नस्योत्तरमाह-स्नेहनस्येत्यादि। स्नेहनस्य द्वौ प्रकप सप्तरात्रश्च त्रिरात्रश्च ___ चक्रपाणिः-वसाविषयमाह-वातातपेत्यादि। संशुष्कनिष्पीतशब्दो क्षीणार्थावेव ; महारुज इत्यस्थयादिभिः सम्बध्यते ; खानि स्रोतांसि। दीप्ताग्नय इत्यादि मजपानविषयः, धस्मरा बहुभक्षकाः, आप्नुयुरुपयुञ्जीरन् ।। १९।२० ॥
चक्रपाणिः--प्रकर्षावित्यल्पप्रकर्ष-भूयःप्रकर्षों , तेन अल्पत्वेन त्रिरानिकः प्रकर्षों भूयस्त्वेन * निष्पीतकफमेदसेति चक्रपाणिः ।
For Private and Personal Use Only