________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[महाचतुष्पादः
४७०
चरक-संहिता। गम्भीरं बहुधातुस्थं मर्मसन्धिसमाश्रितम्। नित्यानुशायिनं रोगं दोधकालमवस्थितम् ॥ विद्याद द्विदोषजं तद्वत् प्रत्याख्येयं त्रिदोषजम् । क्रियापथमतिक्रान्तं सर्वमार्गानुसारिणम् ॥
औत्सुक्यारतिसंमोह-करमिन्द्रियनाशनम् । दुब्बलस्य सुसंवहं व्याधि सारिष्टमेव च ॥ १०॥११॥
कर्तरि बुल। गम्भीरं गेंदप्रभृतिगभीरवातगतं, बहुधातुम्थं रसरक्तादिद्वियादिधातुस्थं, मम्म सन्धिसमाश्रितं, नित्यानुशायिनं सततानुबन्ध, दीर्घकालमवस्थितं द्वियादिवर्ष व्याप्य स्थितम्. एवम्भूतं प्रत्येक द्विदोपजं रोगं याप्यं विद्यात्। अनुपक्रममसाध्यमुपदिशति तदित्यादि । तद्वत् त्रिदोषजं गम्भीरं त्रिदोषजं प्रत्याख्येयं विद्या । बहुधातुस्थं त्रिदोपनं प्रत्याख्येयं विद्यात् । मम्मश्रितं त्रिदोपज प्रत्याख्येयं विद्यात । सन्धिसमाश्रितं त्रिदोषज प्रत्याख्येयं विद्यात्। नित्यानुशायिनं त्रिदोषज प्रत्याख्येयं विद्यात् । दीघकालमवस्थितं त्रिदोपज प्रत्याख्येयं विद्यात् । क्रियापथमतिक्रान्त रोग प्रत्याख्येयं विद्यात। समागानुसारिणम् ऊद्धाघस्तिथ्यगादिसव्वपथगतं रोगं प्रत्याख्येयं विद्यान्। ओत्सुक्य हपौद्र कः, अरतिरनवस्थितचित्तता, संमोहो मानसमोहः, तान् कर्तुं शीलं यस्य तम् । लक्षणमिदमेकम् । इन्द्रियनाशनं रोगं प्रत्याख्ययं विद्यात् । दुर्बलस्य पुसः सुसंवृद्धमतिशयेन सम्यग्यद्धं व्याधि प्रत्याख्येयं विद्यात्। सम्यग युद्धस्तु बलवतः कचिद् याप्यः स्यात् । दुब्बलस्य तु न सिध्यति। सारिष्टश्च व्याधि प्रत्याखायं विद्यात् । एवकारोऽत्र उक्तान्यव्यवच्छेदार्थम् ।। १०।११।।
सुखम्, अल्पेन हेतुनाऽऽशु शीघ्र प्रवर्तनं यस्य तदाशुप्रवर्तक स्वार्थे अण। गम्भीर मेदःप्रभृतिधातुगतं नित्यानुशायी नित्यानुबन्धः। विद्याद द्विदोपजमिन्यन्तेन याप्यलक्षणम्। तद्वदित्यादि तु प्रत्याख्येयलक्षणम्। तद्वदित्यनेन गम्भीरादिया यलक्षणयुक्त सत् त्रिदोषजं प्रत्याख्येयमित्यर्थः । औत्सुक्यं हर्पोद्रेकः, अतिरनवस्थानलक्षणा, संमोहो मानसो मोहः ।
For Private and Personal Use Only