________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६८ चरक-संहिता।
। महाचतुष्पादः निमित्तपूर्वरूपाणां रूपाणां मध्यम बले । कालप्रकृतिदृष्याणां सामान्येऽन्यतमस्य च ॥ गर्भिणीवद्धबालानां नात्युपद्रवपीड़ितम ।
शस्त्रनाराग्निकृत्यानामनवं कृच्छदेहजम ॥ न व्याहन्यत । तस्य च रागस्यापद्रवो न स्यात्। तस्यव च रोगस्योत्पत्ती दोषश्चारम्भक एक एव वातायन्यतमः स्यात्। तेनानन्तरमन्येनानुबन्धे तु नासुखसाध्यतम् । तस्य च रोगस्याधिकरणं देहः सव्वों पक्षमो वमनादिनिखिलौषधप्रयोगसहः स्यात्। तस्य च रोगस्य चतुष्पादसम्पत्तिः स्यात् । तदा तस्य सुखसाध्यस्य लक्षणं बोध्यम्। यथा वातप्रकृतिके समवातादिप्रकृतिके वा सत्कर्मणि यनि पुरुष स्वल्पहेतुकुपितपित्तदोषरसदृष्यजो व्याधिराग्नेयः शीतकालानुपदेशामाद्यवयवेषु जातः कोष्ठगतोऽल्पदिनसमुत्थो निरुपद्रवः कालान्तरे कफानुबन्धो वा सौ पक्षमे चतुष्पादसम्पदाल्प पूर्वरूपोऽल्परूपश्च मुखसाध्यः स्यात् । एषामन्यतम कादिविरहे पुनरुत्तरोत्तरं नात्युपद्रवपीड़ितं तदा मध्यमोत्कृष्टोपायसाध्यख बोध्यम् । एतचोत्सर्गलक्षणं ज्ञेयम् । तेन व्याधिविशेषस्य लक्षणविशेषऽपि मुखसाध्यत्वं न विरुध्यते। यदुक्त "अरे तुल्यत्तु दोषवं प्रमेहे तुल्यदृष्यता। रक्तगुल्मे पुराणवं सुखसाध्यस्य लक्षणम् ॥” इति ॥ ८॥
गङ्गाधरः-कृच्छसाध्यलक्षणमुपदिशति-निमित्तेत्यादि। मध्यमे बले इति बलवत्वं निमित्तादीनां संख्याधिक्येन वीर्यवेगयोराधिक्येन च भवति । तेन यस्य व्याधेर्दोषकोपकारणानि नात्यल्पानि नात्यधिकानि न चातिवीर्यवन्ति नात्यल्पवीव्यवन्ति, पूर्वरूपाणि च रूपाणि च तस्यव नाधिकसंख्यानि नात्यल्पसंख्यानि नातिवेगवन्ति नात्यल्पवेगवन्ति, कालप्रकृतिदृष्याणामन्यतमस्य सामान्ये तेषां व्याधिना सह समानखे व्याधीनां दोषात्मकखात् तदव्याध्यारभ्भकदोषेण सहेत्यर्थः । तेषां त्रयाणां सामान्ये त सखसाध्यखम् । तं व्याधि नात्युपद्रवपीड़ितं कृच्छसाध्यं विद्यात्। लक्षणान्तरमाह-गर्भिणीत्यादि। सुखसाध्यत्वादिलक्षणाभिधानेन विरोधो न वक्तव्यः। यदुक्त “ज्वरे नुल्यत्तु दोपत्वं प्रमेहे सुख्यदृष्यता। रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम् ॥” इति ॥ ८॥
चक्रपाणिः-कालप्रकृतिदूष्याणामिति निर्धारणे षष्ठी, सामान्य इति दोषेण समम् । गुणिोवृद्धबालानां सर्व एव व्याधिः कृच्छ्रसाध्यो बोद्धव्यः । नात्युपद्रवपीडितमिति पृण
For Private and Personal Use Only