________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
खुड्डाकचतुष्पादः ४५२
तस्माच्छास्त्रं ऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने । भिषक चतुष्टये युक्तः प्राणाभिषर उच्यते ॥ १२ ॥ हेतौ लिङ्ग प्रशमने रोगाणामपुनर्भवे ।। ज्ञानं चतुर्विधं यस्य स राजाहों भिषक्तमः ॥ १३ ॥ शस्त्र शास्त्राणि सलिलं गुणदोषप्रवृत्तये ।
पात्रापेक्षीण्यतः प्रज्ञां चिकित्साथ विशोधयेत् ॥ १४ ॥ तथाभूतः सन्ननियतायुषां पुसामातगणां शतानि चिकित्सया उपक्रम्याशु निहन्ति ॥११॥
गङ्गाधरः---अतोऽज्ञो भिषक् न कारणमिति निगमयति--तस्मादित्यादि। तस्मात् उक्तदोपाच्छास्त्रादिचतुष्टथे युक्तो निष्पादितगुणप्रकर्पो भिपक प्राणाभिषर उच्यते। निद्देशतो लब्धेऽपि चतुष्टये पुनश्चतुष्टय इति यदुक्तं तन्मिलितार्थ शास्त्रे शास्त्रपाठे युक्तश्चेत् भिषक् तच्छास्त्रार्थविज्ञाता न स्यात् तदा चिकित्सासु मुह्यति। एवं शास्त्रेऽधीते शास्त्रम्य तत्त्वार्थविज्ञाता च सन्नपि यदि प्रत्तो चिकित्साक्रियायां कृती न भवति तदा मुह्यति । तादृशोऽपि भिषक् यदि दृष्टका न स्यान तदापि न सर्वथा कर्मकुशलः स्यादिति भावः ॥१२॥
गङ्गाधरः-शास्त्रंऽर्थविज्ञान प्रवृत्ती कर्मदर्शने युक्तस्य वैद्यस्य यद्भवति तदाह हेतावित्यादि। हतौ रोगाणामुत्पत्तिहेती रोगाणां लिङ्ग रोगाणां प्रशमने रोगाणामपुनर्भवे ज्ञानमिति चतुर्विधं ज्ञानं यस्य स गजाहो भिषक्तमः। शास्त्रार्थविज्ञानादिचतुष्टययुक्तस्य गेगहे खादिचतुष्टयज्ञानवत्वेन भिषक्तमवं बोध्यं राजाहखश्च ॥ १३ ॥
गङ्गाधरः-ननु सर्व एव भिपजः प्राणाभिसरा भिषक्तमाच भवन्ति । शास्त्राध्ययनेनैव तथाखसम्भवात् किमर्थमर्थविज्ञानादि पुनरुक्तमिति चेत् ? न इत्याह-शस्त्रमित्यादि । शस्त्रं शास्त्रं सलिलगिति त्रीणि गुणदोपप्रत्तये पात्रा
भिषकत्वेन मन्यत इति भिषङमानी। अनियतायुपामिति, यत्रायुःकारणं बलवत् कर्म नास्ति, तत्र पुरुषकारापराधेन वैद्यदोषान्मरणं भवतीति दर्शयति । शास्त्रे शास्त्रावधारणे, अर्थविज्ञाने शास्त्रार्थावबोधे, प्रवृत्तौ स्वयं कर्मकरणे, युक्त उद्युक्त उद्योगनिप्पादितगुणप्रकर्ष इति यावत् ।
For Private and Personal Use Only