________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[खुडाकचतुष्पादः
४४६
चरक-संहिता। चतुणां भिषगादीनां शस्तानां धातुवैकृते।
प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते ॥४॥ धातुवषम्यं पूर्व भूतादितो जायते, पश्चाद्भूतादिसधर्मकतया वातादिभिरनबध्यते । समधम्मेखेन भूतादीनां वातादिधातुवैषम्यकरवं ज्वरादिविशिष्टव्याधिजनकखञ्चेत्युभयस्य योगपद्यात् । दोषव्याध्युभयहेतूनान्तु वातादिवैषम्यकरखव्याधिजनकलयोयौ गपद्याभावात् पून्द परभावाच्च भूतजादिलेन बलवत्कारणजखेन व्याधिव्यपदिश्यते न वा तत्तत्कारणधर्मानुलक्षणं धातुवैषम्यं भवतीति । रात्रिन्दिवादशजन्तु धातुवैषम्यं विकार एव स्वाभाविकः दिनापाक्यजीणवत् । एवं तवैषम्यजवैषम्यविशेष एव ज्वरादिने खन्यः । यथा लिङ्गिलिङ्गशानजन्यज्ञानमेवानुमिति म ज्ञानमित्यपरे ॥३॥
गङ्गाधरः-ननु गुणवत् पादचतुष्टयं विकारव्युपशान्तये कारणं निःसम्बन्धादेव भवति किं सम्बन्धादिति ? अत आह-चतुर्णामित्यादि। भिषगादीनां भिषगद्रव्योपस्थातरोगिणां चतुर्णां मिलितानां नियमेन व्यस्तानां यथार्ह न तु नियमतः शस्तानां गुणवत्तया प्रशस्तानां धातुवैकृते समविपमवातादिधातूनां पुरुषाणां स्वाभाविकादिबलप्रत्तिजे धातुवैपम्ये दुःखे वा सति साम्यार्थी समखार्था सुखार्था च या प्रवृत्तिः प्रवत्तेनं क्रिया चेष्टेति यावत् सा चिकित्साभिधीयते न तु निवृत्तिः। भिषगादीनां हि पादवं चिकित्सायामेव न बचिकित्सायाम्। भिषजः प्रवृत्तिस्तु तवायं व्याधिरेतदात्मकोऽयं व्याधिरस्मिन् व्याधौ तबेदं भक्ष्यमिदं पेयमिदमाचर्यमिदं भेषजमस्मिन् काले सेव्यमिदं पथ्यमिदमपथामित्यादुरपदेशादिच्छेदनभेदनादिरूपा। द्रव्यस्य तु प्रवृत्तिरुपयुक्तस्य खकाय्यकरणम् । परिचारकस्य प्रवृत्तिरौषधान्नादिसंस्कारातुरपरिचर्यादिरूपा। रोगिणः प्रवृत्तिभिषगुक्तप्रतिनियतानुष्ठानस्वगतज्ञापकखादिरूपा ॥४॥ अव्यपदेश्यतया धातुसाम्य एव प्रक्षिपन्तीति तिलकालकमशकप्रभृतीनां धातुवैषम्यजत्वेनेह चरके रोगत्वं व्यक्तमाह, दुःखहेतुत्वञ्च तेषां ज्ञातानां मनोदुःखकर्तृ त्वेन ॥३॥ - चक्रपाणिः--विकारलक्षणानन्तरं विकारप्रशमहतोश्चिकित्साया लक्षणमाह-चतुर्णामित्यादि। चतुर्णामिति पदं वैद्यादीनां मिलितानामेव ग्राहकम् । शस्तानामिति वक्ष्यमाण "श्रुते पर्यवदातत्वम्" इत्यादिगुणयोगेन प्रशस्तानाम्। धातुवैकृते रोगे चिकित्साधिकरणभूते। धातुसाम्यार्थाऽऽरोग्यकरणार्था इत्यर्थः। धातुकृत इति पदं स्पार्थं, येन धातुसान्मार्था प्रवृत्तिर्धातुसाम्य एव वैद्यादीनां भवति । प्रवृत्ति धस्य-इदं कर्त्तव्यमिदं न कर्त्तव्यमित्यादिकोपदेशरूपा.
For Private and Personal Use Only