________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः सूत्रस्थानम्।
૪૨૭ नोल्कापाते न महाग्रहोपगमने न नष्टचन्द्रायां तिथौ न सन्ध्ययो मुखाद गुरोः नावपतितं नातिमात्र न तान्तं न विस्वरं नानवस्थितपदं नातिद् तं न विलम्बितं नातिक्लीवं नात्युच्चै तिनीचैः स्वरैरध्ययनमभ्यस्येत्।
नातिसमयं जह्यात । न नियमं भिन्द्यात् । न नक्तं नादेशे चरेत्। न सन्ध्यास्वभ्यवहाराध्ययनस्त्रीस्वप्नसेवी स्यात्। न बालवृद्धलुब्धमूक्लिष्टक्कीवैः सह सख्यं कुर्यात् । न मद्यदूतस्वसम्पर्क दुर्गोत्सव विवाहादौ। नोल्कापाते इति स्पष्टम् । महाग्रहोपगमनं चन्द्रसूर्य ग्रहणं शनिगुरुराहुकेतुसञ्चारे च। न नष्टचन्द्रायामिति कृष्णपक्षे चतुई श्याममावस्यायां शुक्लायां प्रतिपदि च। न सन्धायोरिति च स्पष्टम् । नामुखाद गुरोगुरोमुखादेव गृहीतमध्ययनं न तु स्वयं व्याख्यातमध्ययनं बैध सद वृत्ताचरणफलदम् । न अवपतितं वर्णहीनं, नातिमात्रमतिशयेन न, न तान्तं रूक्ष, न विस्वरमुदात्तादिस्वररहितम्, अनवस्थितपदं पदावस्थानरहितं, न अतिद्वतं, न अतिविलम्वितं, न अतिक्लीवम् अतिमात्रेण बलहीनस्येवातिविलम्बोचारणं, नात्युच्चैरुदात्तादिस्वरैरेवात्युच्चैन, नातिनीचैरनुदात्तादिस्वरैरेव नातिनीचैरिति । अध्ययनमधीतग्रन्थमभ्यस्येत् पुनःपुनरावत्तयेत् । एषोऽध्ययनप्रकारस्तु गृहाश्रमे शेयो न तु ब्रह्मचर्याश्रमे । तत्र ब्रह्मचय्येविधानमेव सद्वृत्तमिति ।
नातिसमयम् । अतिनिमित्ते सति बहुभिः कृतविधारणं नियमः । न नक्त चरेत् नादेशे च चरेदित्युभयत्रान्वयः। न सन्ध्याखित्यादि। यद्यपि सन्ध्ययोरभ्यवहाराध्ययनस्त्रीसेवनं पूर्व निषिद्धं तथापि तत् स्त्रीसेवनाध्ययनादिनिषेधवचनं सन्ध्याकालस्य क्रियायां निषिद्धं तदुपसंहृत्येह शेषसंग्रहार्थं तदुक्तमिति न पुनरुक्तम् । न बालेत्यादि स्पष्टम् । अत्र क्लिष्टो महाग्रहोपगमनं चन्द्र सूर्यग्रहणम्, अवपतितं हीनवणे ; तान्तं रुक्षस्वरम् ; अतिक्लीवमतिविल. म्बितोच्चारणम् । _ अति समयो मिलित्वा बहुभिः कृतो नियमः। न सन्ध्यास्वित्यादौ पुनः स्त्रीनिषेधः सन्ध्यासु यावदकर्त्तव्यस्य न्यूनतापरिहारार्थमुक्तः ; पूर्वन्तु स्त्री यथा न सेव्या तनिखिलेनोपदिशता न सन्ध्ययोरित्युक्तम् इति प्रकरणभेदार्थ न पौनरुक्त यम्। क्लीवो हीनसत्त्वः, क्लिटो निन्दितो रोगादिना, गणान् मिलितान् । कृच्छद्वितीय आपदि सहायः, वहिः कुर्यादवजानीयात् ।
For Private and Personal Use Only