________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
[दीघञ्जीवितीयः यशःपौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियार्थबलसमुदायस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते॥१॥ अमुखमतो विपय्ययेण ॥२॥ हितैषिणः पुनभूतानां परस्वादुपरतस्य सत्यवादिनः सामपरस्य समीक्ष्यकारिणोप्रमत्तस्य त्रिवर्ग परस्परेणानुपहतमुपसेव्य पूजार्हपूजकस्य ज्ञानविज्ञानोपशंसशीलस्य दृद्धोपसे विनः सुनियतरागेामदमानवेगस्य सततं विविधप्रदानपरस्य तपोशानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमश्चामुञ्चावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते ॥३॥ अहितमतो विपरययेणेति ॥४॥ इत्येव चतुर्विधं यदायुस्तस्य हिताहितं रक्षणवद्ध नभेदाद्विविधमेवाशैथिल्यजनकाहाराचारभेषजादिकं हितं ह्रासातिहासरूपशैथिल्यजनकरूपमहितं च मानमायुषः परिमाणं चकारादनुक्तमप्यायुषोऽप्रमाणं तच्च मानामानमायायुषः स्वयं वक्ष्यति तत्रैव । तद्यथा--प्रमाणमायुषस्वथे न्द्रियमनोबुद्धिचेष्टादीनां स्वेनाभिभूतस्य विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः । इदमस्मात् क्षणमुहूर्तात् दिवसात् त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् संवत्सराद्वा स्वभावमाएत्स्यत इति, तत्र स्वभावः प्रत्तरुपरम मरणम् अनित्यता निरोध इत्येकोऽर्थः । इत्यायुषः प्रमाणमतो विपरीतमप्रमाणमरिष्टाधिकारे देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणाप्रमाणमायुक्दै इति। तच्चे ति तत् स्वरूपलक्षणत आयुश्च इत्येतत्सर्वं यत्रोक्तं स आयुक्वेद उच्यते। ननु सुखं दुखश्चात्मनो गुणी प्रत्येक तदेव द्वयं वा किमायुरुत तवयजनकं वा ? आद्य' चेदनायुपोऽपि महासुखदर्शनान्महायुपोऽपि स्वल्पसुखमहादुःखबादल्पायुष्टमहायुष्ट्योने विनिगमना । तदद्वयं चेत् समसुखदुःखोभयस्यैकत्रासम्भवादसम्भवः स्यात्, विषमसुखदुःखोभयस्यैकखापत्तिश्च स्यात् न मुखात्मकं दुःखात्मकं वा आयु: स्यादिति । सुखदुःखान्यतरजनक चेत् तदा सुखमात्रजनकं न तपउपवासादिक्ले शकरखात् दुःखमात्रजनकं नावैधकादि भोजनादि सुखकरवात् । तदुभयजनकं चेदेकखापत्तिन तु सुखलक्षणं दुःखलक्षणञ्चेति द्विविधं स्यात्, इति चेन्न शारीरमानसाभ्यां रोगाभ्यामनभिद्रु ताभिभूतादीनां पुरुषाणामायुषः सुखदुःखमुणयोजनकत्वेन सुखदुःखसंज्ञकखात् तथा च येनायुषा विशिष्टस्यादृष्टप्रयोज्य-सुखदुःख निवृत्ति-लक्षणमोक्षस्तपोजए-शमदमादिभिजनितमहामूलीये तत्र शारीरमानसाभ्याम्' इत्यादिना ग्रन्थेन “अहितमतो विपय्ययेण' इत्यन्तेन वक्ष्यति, तस्य दिताहितमित्यायुषः पथ्यापथ्यं, मानञ्चत्यायुप एव प्रमाणं, मासिकद्विमासिकत्वेन विकृतिलक्षणैरिन्द्रियस्थाने तथा प्रकृतिलक्षणैरिदमायुष्मतां कुमाराणां लक्षणं भवतीत्यादिना वक्रव्यम् । तच त्यायुः स्वरूपेण "शरीरेन्द्रियसत्त्वात्मसंयोगः' इत्यादिना वक्ष्यमाणम् । तेन हिताहितमित्यादिना
For Private and Personal Use Only