________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः]
सूत्रस्थानम् । तत्रानुमानगम्यानां पञ्चमहाभूतविकारसमुदायात्मकानां सतामिन्द्रियाणां तेजश्चक्षुपि खं श्रोत्रे प्रारणे नितिरापो रसने स्पर्शनेऽनिलो विशेषेणोपदिश्यते ॥ द्रव्याणां गुणानां संग्रहः संक्षेपः। तत्रादिमन्तु त्रिपञ्चकं पनो मनोऽर्थश्चिन्त्यद्रव्यमात्मा चेति द्रव्याणि । अन्त्यं द्विपञ्चकं मनोऽर्थाः सुखदुःखेच्छाद्वषप्रयत्ना बुद्धिश्च । इत्येते गुणाः। तेषां संग्रहः संक्षेपः। शुभाशुभत्तिनित्तिहतुश्च । पुनद्रव्याश्रितं कर्म यदुच्यते क्रियेति । शुभस्य लोकद्वये मङ्गलस्य लोकद्वये चाशुभस्य प्रत्तेः ससारे पुनःपुनरुत्पत्तिमरणाभ्यां गमनागमनस्य हेतुः । निटत्तेः संसारान्मोक्षस्य च हेतुः। किंवा शुभं दुःखहानिश्चतुव्वेगः। अशुभ सुखहानिः। तयोः क्रमेण प्रत्तिधम्मथिकाममोक्षाणां प्रत्तिरपम्मानाकामामोक्षाणां निवृत्तिः। तयोहेतुर्भवतीत्यर्थः। अथवा शुभाशुभयोः प्रत्तिश्च नित्तिश्च तयोहेतुः। च पुनद्रव्याश्रित कर्म शुभाशुभप्रतिनियुत्तिहेतुर्भवति । ननु कर्म किं वमनादिपञ्चकं गमनाशनस्वमादिकं वेति ? अत आहयदुच्यते क्रियति । शुभाशुभप्रवृत्तिनिटत्तिहेतुः कर्म क्रिया धर्माधर्म संस्कारजनकं कर्म। जन्मान्तरकृतमस्मिन् जन्मनि च कृतं यत् तत् ॥ ५ ॥
गङ्गाधरः-ननु द्रव्याश्रितं कम्मैव शुभाशुभप्रवृत्तिनित्तिहतुरिति चेत्, तर्हि किमर्थमिन्द्रियादिपञ्चपञ्चकादिरध्यात्मद्रव्यगुणसंग्रह उपदिष्ट इति ? अतो येन प्रकारेण शुभाशुभप्रतिनित्तिहेतुः कर्म भवति तमुपदेष्टुं मनसा पञ्चेन्द्रियाइति ; योऽयं संग्रहः शुभस्य धर्मस्य सुखस्य च प्रवृत्ती हेतुर्भवति ; अशुभस्याधर्मस्यासुखस्य च निवृत्तौ च हेतुर्भवति ; तत्रोक्तसंग्रहस्य सम्यगयोगः शुभस्य प्रवृत्तावशुभस्य निवृत्तौ हेतुर्भवति, अयोगातियोग मिथ्यायोगास्तु अशुभस्य प्रवृत्तौ च हेतवः ; यदि वा शुभस्य पूर्वव्याकृतस्य चाशुभस्य पूर्वव्याकृतस्य प्रवृत्तेः संसारस्य निवृत्तेः मोक्षस्य यथोक्तसंग्रहो हेतुरिति व्याख्येयं ; तत्र संग्रहस्य शुभाशुभहेतुत्वं पूर्ववदेव व्याख्येयं ; दुतिस्तु संग्रहः संसारस्य हेतुर्भवति तत्त्वतो ज्ञातस्तु मोक्षाय हेतुरिति व्याख्येयम्। अध्यात्मद्रव्यगुणादधिकमनुक्त हेतुमाह-'द्रव्याश्रितन्चेत्यादि। कर्म इत्युच्यमाने वमनादिप्वपि तथाऽऽस्यास्वप्नादिष्वपि कर्मशब्दवाच्येषु प्रसक्ति: स्यात्, अतस्तद्वयावृत्यर्थ द्रव्याश्रितपदं, तथापि धर्माधर्मयोः कर्मशब्दवाच्ययोः प्रसक्तिः स्यात् इत्युक्त यदुच्यते क्रियेति ; कर्मण: पृथक् कृत्वाभिधानं पञ्चकर्मादिषु कर्मणोऽप्रविष्टत्वात् ॥ ५ ॥
चक्रपाणिः-सम्प्रति वैद्यकसिद्धान्तेन पाञ्चभौतिकानामपि चक्षुरादीनां यथा तैजसत्वादिव्यपदेशो भवतीति तत्राह,-तत्रेत्यादि। अनुमानेन प्रतीयन्त इत्यनुमानगम्यानि, अनुमानञ्च
For Private and Personal Use Only