________________
Shri Mahavir Jain Aradhana Kendra
टम अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३६३
शब्दखादिसामान्यादेकत्वेनोक्ता इति बोध्यम् । अत्राव्यक्तशब्दादयो नार्थाः 1 इन्द्रियाणां शब्दतन्मात्राद्याकाशादियो निकानीन्द्रियाणि । तानतुल्ययोनिकत्वान्न गृहन्ति ह्याहङ्कारिकत्वात् तस्माद्वाक्ताः कार्य्यभूता भौतिकाः शब्दादयः श्रोत्राद्यर्थाः प्रत्यक्षीभवन्ति । नाकाशो न चाव्यक्तः शब्दः, आहङ्कारिकत्वात् परमाणुत्वाच्च । श्रोत्रादीन्द्रियं हि खल्वाहङ्कारिकेन्द्रियानुप्रविष्टपाञ्चभौतिकत्वेन । ततो महत् । न हि महत् स्वस्मादणून ग्रहीतुं शक्नोति । एवं परत्रापि व्याख्येयम् । स्पर्शोऽपि व्यक्त एवार्थसंज्ञः नाव्यक्तः स्पर्शः 1 स चाहङ्कारिक एवं परमाणुरूपो न प्रत्यक्षीभवति, व्यक्तश्च प्रत्यक्षीभवतीति प्राग्वत् । वायुस्तु महाभूतस्पर्शमात्रसहित एवाहङ्कारादुत्पन्नः शब्दमात्रसहिताकाशवत् । स च परमाणुरूपो नोपलभ्यते व्यक्तश्चोपलभ्यते । रूपमपि व्यक्तमेवार्थो नाम न त्वव्यक्तमाहङ्कारिकत्वात् सूक्ष्मं नोपलभ्यते व्यक्तश्च प्रत्यक्षं भवति । तेजो महाभूतरूपमात्र सहितमेवाहङ्कारादुत्पन्नं न प्रत्यक्षीभवति । चक्षुरर्थ तस्मान्न भवति । रसस्नु खलु व्यक्तः परमाणुरूपोऽव्यक्तो रसनार्थः तत्र व्यक्तो रसः प्रत्यक्षीभवति, न त्वव्यक्तः । आपो हि रसमात्रसहिता अहङ्काराज्जाता न प्रत्यक्षीभवन्ति परमाणुरूपत्वात् । गन्धोऽपि व्यक्तो घ्राणार्थः सूक्ष्मो नोपलभ्यते, व्यक्तस्तु प्रत्यक्षीभवति । पृथिवी नाम महाभूतञ्च गन्धमात्रसहितैवाहङ्काराज्जाता सूक्ष्मा तत्प्रधाना पञ्चभूतयोनिका, घ्राणमिन्द्रियमिति नाव्यक्तो गन्धोऽर्थः ।
;
अत्रायमभिसन्धिः --- पञ्च तन्मात्राण्यतिसूक्ष्माणि पूर्व्वतरमभवन् । ततः शब्दमात्रं कालदिग्भ्यामेकीभूय स्थूलीभूतमप्रतिघातलक्षणमाकाशमभवत् । तेन व्याप्तखात् तदन्तव्वर्ती स्पर्श तन्मात्रवायुरेकादर्शकांशाकाशानुप्रविष्टः स्पर्शशब्दसहित एव वायुरभवत् । तस्मादेष झात्मके स्पर्शः शीतो वायुयोनिक एव । अतो व्यक्तः स्पर्शो भवति । स्पर्शनेन्द्रियञ्च वायुयोनिकं तं स्पशं गृह्णाति, नाव्यक्तं स्पर्श' भिन्नयोनित्वात् । एवमाकाशव्याप्तवायुव्याप्तत्वात् तदन्तरवस्थितं रूपतन्मात्रं महाभूतं तद्वायोरेकादशैकांशानुप्रविष्टं शब्दस्पर्शाभ्यां सहितमेवाभवत् । ज्योतिस्तत्र लोहितमेव व्यक्तं रूपं स्पशेत्खेनोष्णमभवत् । एवमाकाशनष्ट कुड्यसन्निभः ॥” इति । इन्द्रियद्रव्यनिर्देशे तु खादितत्वेन निर्देश: कृतो वक्ष्यमाणेन "महाभूतानि खं वायुरग्निरापः क्षितिस्तथा' इति ग्रन्थक्रमानुरोधेन । इन्द्रियाधिष्टानमिन्द्रियाश्रयः; यद्यपि चाक्षिणी कर्णौ नासापुटे हो तथाप्येकेन्द्रियाधिष्ठानत्वेनैकत्वमेवेति कृत्वा " पञ्च" इत्युक्तम् ।
For Private and Personal Use Only