________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६०
[ इन्द्रियोपक्रमणीयः
चरक संहिता । प्रवृत्तिः । यद्गुणञ्चाभीक्ष्णं पुरुषमनुवर्त्तते सत्त्वं तत्सवमेवोपदिशन्ति पयो बाहुल्यानुशयात् ॥ ३॥
*
लब्धिराशुसञ्चारादिति ।" तेन चाक्षुपादीनां ज्ञानानामयौगपदं प्रत्यक्षमुपलभ्यते । नास्ति हि प्रत्यक्षोपलब्धौ विप्रतिपत्तिः ।
नन्वेवर सत्वमेकमेव भवति तस्मात् युगपदनेकेषु प्रवृत्तिरस्तु ? स्वार्थेन्द्रि यार्थसङ्कल्पव्यभिचरणाच्च । रजस्तमः सत्त्वगुणयोगाच्चानेकन्तु कथं भवति ? केषाञ्चिद्धि मनो राजसम् आसुरादिभेदात् केषाञ्चित् तामसं पाशवादिभेदात्, केषाञ्चिद् ब्राह्मप्रादिभेदेन सात्त्विकमित्यत आह- यद्गुणमित्यादि । सत्त्वं मनः यो गुणो यस्य तत् । येन रजःप्रभृतिगुणेन युक्तं सदभीक्ष्णं पुनः पुनः पुरुषमनुवर्त्ततेऽनुवनाति तत्तद्गुणमेव सत्वं मन ऋषय उपदिशन्ति बाहुल्यानुशयात् । मनसत्रिगुणात्मकस्य सत्त्वबहुत्वात् सत्वसंज्ञकस्यैकस्यैव त्रयाणां रजःप्रभृतीनामन्यतमस्य बाहुल्यानुवर्त्तनात् । एतेन रजस्तमःसत्त्वगुणयोगेनापि न सत्त्वस्यैकस्यानेकत्वं यदस्य राजसं सत्त्वं कोपादिमत्त्वात् तत् सत्त्वमधुना तामसं मोहादिमत्त्वात् तदेव सवं सात्त्विकं शौचधर्म्मादिमत्त्वादित्येकस्वरूपत्वानपायादिति सूचितम् । यद्गुणञ्चेति चकारेण सच्वं यत् स्वार्थेन्द्रियार्थसङ्कल्पं सत् पुनःपुनः पुरुषमनुवर्त्तते तत्सत्त्वमेवोपदिशन्त्यृषयः । तद्यथायदा यच्चिन्त्यते तच्चिन्तकं सत्त्वम् । यदा तत्सत्त्वं तच्चिन्त्यं स्वार्थं विहाय विचाय्र्यमालम्बते तदा विचारक सत्त्वं भवति । एवं सुखादिबोधकं व्याख्येयम् । एवं यदिन्द्रियार्थग्रहणे यदिन्द्रियं प्रेरयति तदा तत्सत्त्वमेव तदिन्द्रियार्थग्राहकं भवति । इत्येवं यदा सत्त्वं प्रतिपन्नं शत्रौ इमं मे शत्रु जानामीत्येवं सङ्कल्पते तदा तत्सत्त्वं शत्रुसङ्कल्पकम् । यद्ययं मे बन्धुर्भवतीत्येवं सङ्कल्पते तदा बन्धुसङ्कल्पकं भवतीत्येवमेकमेव मनो भवति । न त्वनेकमिति निष्कर्षः ॥ ३ ॥
小
Acharya Shri Kailassagarsuri Gyanmandir
ननु यदेकस्मिन्नेव पुरुषे कदाचिद्रजोयुक्तं कदाचित् तमोयुक्तं कदाचित् सत्त्वयुक्त मनो भवति, तत् कथमयं सात्त्विकोऽयं राजस इत्यादिव्यपदेशो भवतीत्याह - यद् गुणमित्यादि । येन गुणेन सत्त्वादिना युक्त यद्गुणम्, अभीक्ष्णं पुनःपुनः सच्वं मनोऽनुवर्त्ततेऽनुबध्नाति, तत् सत्त्वं सात्त्विकं राजसं तामसं वा उपदिशन्ति बाहुल्यानुशयात् भूरिसम्बन्धादित्यर्थः । एतदुक्तं भवति-सत्यपि गुणान्तरान्वये सतबाहुल्यात् सत्कार्याणि सत्यशौचादीनि यस्य अवन्ति स सात्विक इति व्यपदिश्यते, एवमपरमपि व्याख्येयम् ॥ ३ ॥
मुनयो गुणबाहुल्यानुयात् इति चक्रपाणिष्टतः पाठः ।
For Private and Personal Use Only