________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः। अथात इन्द्रियोपक्रमणीयमध्यायं व्याख्यास्यामः,
इतिह स्माह भगवानात्र यः ॥१॥ इह खलु पञ्चेन्द्रियाणि पञ्चेन्द्रियद्रव्याणि पञ्चन्द्रियाधिष्ठानानि पञ्चेन्द्रियार्थाः पञ्च न्द्रियबद्धयो भवन्तीत्युक्तमिन्द्रियाधिकारे।
गङ्गाधरः--आहाराचारचेष्टासु यद्धितं तस्य सेवनमुक्तम्। तत्राहारः कीदृश आहार्य आचारश्च क आचर्यश्चेष्टा च कथं चेष्टनीयाः चेष्टाहारी च कैः कार्यावित्याशङ्कायां चेष्टाहारयोरिन्द्रियाधीनत्वेनेन्द्रियोपक्रमणीयाध्यायमारभते-अथात इत्यादि। इन्द्रियैरुपक्रमणं व्यवहत्तु मारम्भ इन्द्रियोपक्रमणमिन्द्रियारम्भस्तमधिकृत्य कृतोऽध्यायस्तं तथा, सव्वं प्राग्वग्राख्येयम् ॥११॥
गङ्गाधरः-अथाहाराचारचेष्टासु हितं यत् तस्य सेवने आहारो दधिभोजनवदाप्तोपदेशेन हिततया हत्तेच्यो भवतीत्याचारचेष्टयोरिन्द्रियाधीनखात् तानीन्द्रियाणि कतिधा कतीन्द्रियद्रव्याणि कति चेन्द्रियाधिष्टानानि कति चेन्द्रियार्याः
चक्रपाणिः-स्वस्थाधिकारे आहाराचारचेासु परं प्रयत्नमातिष्ठेदित्युक्त, तत्राहारचेयाः काश्चित् पूर्वाध्यायत्रयेण प्रतिपादिताः, तेनावशिए स्याचारस्याभिधानार्थ तथेन्द्रियमनसामतियोग-मिथ्यायोग-परिहाररूपचेष्ठोपदर्शनार्थञ्च इन्द्रियोपक्रमणीयमाह ; तत्रापि वक्ष्यमाणचेटाचारयोः प्रायेणेन्द्रियादिविषयत्वेनेन्द्रियादीन्येवादावाह-इन्द्रियस्योपक्रमणं व्याकर्तुमारम्भः, तमिन्द्रियोपक्रममिन्द्रिय-व्याकरणमधिकृत्य कृतोऽध्याय इन्द्रियोपक्रमणीयः । इहेतीह प्रकरणे, पञ्चेन्द्रियाणि, तेन प्रकरणान्तरेण दर्शनान्तरपरिग्रहेण वक्ष्यमाणैकादशेन्द्रियाभिधानेन समं न विरोध: ; यत: सर्वपारिपमिदं शास्त्रं, तेनायुर्वेदाविरुद्धवैशेषिकसांख्यादिवशनभेदेन विरुद्धार्थोऽभिधीयमानो न पूर्वापरविरोधमावहतीत्यर्थः। मनस्तु यद्यपि वैशेषिकमतेऽपीन्द्रियं शास्त्रकारेणापि मधुररसप्रस्तावे "पडिन्द्रियप्रसादनः” इत्यभिधानादनुमतमेव, तथापीह प्रकरणे चक्षुरादिभ्यो वक्ष्यमाणाधिकधर्मयोगितया नेन्द्रियमितीन्द्रियत्वेन न पठितम्। इन्द्रियादीनि स्वयमेव व्याकरिष्यति तत्र चक्षुः' इत्यादिना। इत्येतावदेवोक्तमिन्द्रियाधिकारे पूर्वाचाय्र्यैरिति शेषः । एतेनाव्यशास्त्र पीन्द्रियाधिकार एतावदेवोक्तमिति फलति ॥१॥
For Private and Personal Use Only