________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः ।
सूत्रस्थानम् ।
३३६ भनयेन्निगदं शीधु पिबेन्माध्वीकमेव वा। वसन्तेऽनुभवेत् स्त्रीणां काननानाञ्च यौवनम् ॥ १२ ॥ मयूखैजगतः सारंच ग्रीष्मे पेपीयते रविः । स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥ शीतं सशर्करं मन्थं जाङ्गलान् मृगपनिणः ।
घृतं पयः सशाल्यन्नं भजन ग्रीष्मे न सीदति ॥ वार्ताकु-तिक्तकैश्च हिमात्यये । सेवेन्मध्वासवारिष्टान् शीधु माध्वीकमाधवान ।। व्यायाममञ्जनं धमं तीक्ष्णश्च कवडग्रहम् । सुखाम्बना च सर्वार्थान् सेवेत कुसुमागमे। तीक्ष्णरुक्षकक्षार-कपायं कोष्णमद्रवम् । यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् ॥ व्यायामोऽत्र नियुद्धाध्व-शिलानिर्यातजो हितः। उत्सादनं तथा स्नानं वनिताः काननानि च ॥ सेवेत निर्हरेच्चापि हेमन्तोपचितं ककम् । शिरोविरेकवमन-निरूहकवड़ादिभिः॥ वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान ॥” इति । इत्थञ्चायं कालो वसन्तः मूर्याचन्द्रमससमकरवत्त्वेऽपि रोक्षधादतिचलद्वाताच्चेति दिनकृभाभिरितिपदेन शापितम् । हेमन्त शिशिरयोर्भानुकराल्पखेन श्लेष्मप्रविलयनासामादिति ।। १२ ।।
गङ्गाधरः अथ वसन्ताव्यवहितोत्तरखन वसन्तानन्तरं ग्रीष्मविधिमाहमयूरवैरित्यादि। जगतः सारं स्नेहमित्यर्थः। पेपीयतेऽतिशयेन पिबति शोषयति इत्यतिशयमयूखप्रखरखात् कालोऽयं ग्रीष्म इत्यनुमीयते। तदा तस्मिन्नत्यर्थप्रखरकरकरणकातिपीतजगत्स्नेहार्कवति ग्रीष्मे स्नेहजनकखात् शैत्यकरखाच्च स्वाद्वादिकमन्नपानं हितम् । मन्थ इति--.."शक्तवः सर्पिषा युक्ताः शीतवारिपरिप्लुता । नात्यच्छा नातिसान्द्राश्च मन्थ इत्यभिधीयते ॥” पौपमाघात्मके हेमन्ते श्लेष्मचयः। सुखाम्बुना सुखोष्णाम्बुना, लावपिजलं मांसमिति सम्बन्धः, भश्नयेदिति रछेदः। अनुभवेदिति भाषया श्लेष्मक्षयार्थं स्तोकमैथुनमनुजानाति ॥ १२ ॥
चक्रपाणिः-मयूखैरित्यादिना ग्रैष्मविधिमाह---मयूखैस्तेजोभिः, स्नेहः सार इत्यर्थः, पेपीयतेऽत्यर्थ पिबति, मन्यः- "शक्तवः सर्पिषा युक्ताः शीतवारिपरिप्लुताः। नात्यच्छा नाति
• “सारम्' इत्यत्र “स्नेहम्” इति क्वाचित्कः पाठः ।
For Private and Personal Use Only