________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६८
चरक संहिता |
दूराद्विनिर्गतः पव्र्व्वच्छिन्नो नाड़ीतनूकृतः । नेन्द्रियं बाधते धूम मात्राकालनिषेवितः ॥ १६ ॥ यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत् । कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत् ॥ २० ॥ अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत् । स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत् ॥ २१ ॥ तालु मूर्द्धा च कण्ठश्च शुध्यते परितप्यते । तृष्यते मुह्यते जन्तु रक्तश्व स्त्रवतेऽधिकम् ॥ शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते । इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थ निषेविते ॥ २२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ मात्राशितीयः
कोषः पव्व ऋजुभिस्त्रिभिः कोषैराफलितम् आ सम्यक् सन्धिस्थानेऽनृजुरूपेणोत्तरमुखेण सन्धानेन निष्पादितं त्रिभङ्गमित्यर्थः । त्रिकोषस्य ऋजुत्वेन समुदायस्य त्रिवक्रत्वमायातम् । कोलास्थ्यग्रप्रमाणितं कोलास्थिप्रवेशाह च्छिद्रयुक्तस्थूलम् । वस्तिनेत्रसमद्रव्यं वस्तेनेत्रस्य यद्द्रव्यं तदेव द्रव्यं घटककारणीभूतसमवायिकारण यस्य । तच द्रव्यं वक्षाते सिद्धिस्थाने "सुवर्णरूप्यत्रपुताम्ररीति-कांस्यास्थिलौहद्रमवेणुदण्डः । नलेर्विशणर्मणिभिश्च तैस्तैः कार्याणि नेत्राणि सुकणिकानि ॥” इति । यथोक्तनेत्रेण धूमपानगुणं दर्शयति-दूरादित्यादि । दूराद्विनिर्गत इत्यनेन चतुर्विंशत्यङ्गलादिदीर्घत्वप्रयोजनम् । पर्वच्छिन्न इत्यनेनात्र त्रिकोषाफलनप्रयोजनम् नाड़ीतनूकृत इत्यनेन कोलास्थ्यग्रप्रमाणितमित्यस्य प्रयोजनं दर्शितम् । एतत्तयान्यतमं विना इन्द्रियबाधकत्व बोध्यम् । अत्र केचित् यदेत्यादिन कश्लोकेन धूमस्य सम्यग् योगलक्षणमाहुः । अविशुद्ध इत्यादिनकेन श्लोकेनायोगलक्षणं, तात्वित्यादिभ्यां श्लोकाभ्यामतियोगलक्षणमाहुस्तन्न । पूर्व्वमेव हत्कण्ठेत्यादिना सम्यग योगातियोगलक्षणानामुक्तात्वेनात्र पौनरुक्त्यापत्तेः ।। १९ – २२ ॥
For Private and Personal Use Only
यथाभिहितनलिया पाने गुणं दर्शयति – दूरादित्यादि । केचिद् धूमसम्यक्पानादिलक्षणं ग्रन्थ ं पठन्ति तत्र चोरश्चेत्यादि सम्यग्धूमपानलक्षणम् अविशुद्ध इत्याद्ययोगलक्षणं; तात्वित्याद्यतियोगलक्षणम् । धूममिति षष्ठ्यर्थे द्वितीया; यदि वा धूमस्येति पाठः ॥ १९ - २२ ॥
;