________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६४
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः । यथेरितानां दोषाणां सम्यक् पीतस्य लक्षणम् ॥ १५ ॥ बाधिमान्ध्यं मूकत्वं रक्तपित्तं शिरोभ्रमम् । काले चातिपीतश्च धूमः कुर्य्यादुपद्रवान् ॥ तत्रष्टं सर्पिषः पानं नावनाअनतर्पणम् । स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि । शीतन्तु रक्तपित्ते स्यात् श्लेष्मवित्ते विरुक्षणम् ॥ १६ ॥ परन्स्वतः प्रवक्ष्यामि धूमो येषां विगहितः । न विरिक्तः पिबेद्धमं न कृते वस्तिकर्म्मणि ॥
{ मात्राशितीयः
,
गङ्गाधरः- अथैतद्धूमत्रयस्य सम्यगतियोगलक्षणमाह-हृत्कण्ठेत्यादि । संशुद्धिः श्लेष्मरहितत्वं, शिरसो लाघवं यथेरितानां दोषाणां यथा प्रवत्तेमानानां वातादीनां शमः शान्तिः । सम्यक्क्षीतस्य लक्षणमेतत् विपरीतम सम्यकपीतस्य धूमस्य लक्षणमिति बोध्यमर्थात । अतिपीताकालपीतयोर्लक्षणमाहवाधिय्यमित्यादि । शिरोभ्रमः शिरोघूर्णत्वम् । अकाले पीतो धूमोऽतिपीतो वा धूमः कुर्य्यात् उपद्रवान् उक्तवाधिर्य्यादिरूपान् परान् वा । तयोः प्रतिकारमाह - तत्वेत्यादि । तत्र धूमजे दोषे प्रकरणाद कालपीतातिपीतान्यतरधूमकृतप्रकोपे दोघे सति यदि पित्तानुगो वायुः पित्तानुबन्धवान् भवति तदा सर्पिषः पानं स्नैहिकं नावनाञ्जनतर्पणं स्नेहद्रव्यघटितं कार्य्यम् । शीतन्तु शीतस्पर्शवीर्य्यवदद्रव्यघटितं नावनाञ्जनतर्पणं, रक्तपित्ते रक्त पित्ते रक्तयुक्त पित्ते च स्यात् । श्लेष्मपित्ते श्लेष्मप्रधानपित्ते विरुक्षणं रौक्षत्रगुणवद्द्द्रव्यघटितं नावनाञ्जनतर्पणं स्यात ।। १५/१६ ।।
गङ्गाधरः- ननु सर्व्व एव पुरुषः किं धूमपानाधिकारी नवेत्यत आहपरन्त्वित्यादि । वस्तिकर्म्मणीति त्रिविधे, रक्ती रक्तदोषवान्, नामे न
For Private and Personal Use Only
बलापेक्षी विकल्पः । तत्रेत्यादि - धूमज इत्यधिक प्रयुक्तः धूमकृते यदि वायुः पित्तानुगो वृद्धस्तदा नावनाञ्जनतर्पणं स्नैहिकं स्नेहकृतं कर्त्तव्यं, शीतं शीतकृतं कर्त्तव्यं नावनाद्य व, विरुक्षणमपि नावनादेव ॥ १४ – १६ ॥